॥ॐ वक्रतुण्डाय नमः॥
स्मृधातोः यङ्लुकि किं रूपम् ?
स्मृधातोः यङ्लुग्रूपविषये महान् भ्रमः दृश्यते
संस्कृतप्रपञ्चे । सास्मरीति इति प्रयोगो बहुधा श्रूयते । परन्तु अयं प्रयोगः
असाधुः । कथम् इति ज्ञातुं प्रक्रियामवलोकयामः । तथाहि –
पुनः पुनः अतिशयेन वा स्मरति इत्यर्थे स्मृधातोः धातोरेकाचो हलादेः क्रियासमभिहारे यङ् (३/१/२२) इति
सूत्रेण यङ्प्रत्यये स्मृ +
यङ् इति स्थिते यङोऽचि च इति सूत्रेण यङो लुकि स्मृ इत्यवशिष्यते । लुप्तः प्रत्ययः प्रत्ययलक्षणेनानीय सनाद्यन्ता धातवः(३/१/३२) इति
सूत्रेण धातुसंज्ञा उच्यते । ततः सन्यङोः(६/१/१०) इति
सूत्रेण धातोः द्वित्वे स्मृ
स्मृ इति जाते प्रथमस्य स्मृ इत्यस्य पूर्वोऽभ्यासः(६/१/५) इति सूत्रेण अभ्याससंज्ञायाम् उरत् (७/४/६७) इति सूत्रेण ऋकारस्य स्थाने अकारादेशे उरण् रपरः (१/१/५१) इति रपरत्वे स्मर्
स्मृ इत्यवस्थायां हलादिः
शेषः (७/४/६१) इत्यनेन
आदेर्हलः शेषे स स्मृ इति स्थितिः । अस्याञ्चवस्थायाम् ऋतश्च(७/४/९३) इति सूत्रं प्रवर्तते । ऋकारान्तधातूनां विषये विशिष्टं
सूत्रमिदं पठ्यते। सूत्रार्थः इत्थम् –ऋदन्ताद्धातोः अभ्यासस्य रुक्, रिक्, रीक्
एते आगमाः स्युः यङ्लुकि । अत्र त्रिष्वपि आगमेषु ककरस्यानुबन्धलोपः, रुक्
इत्यत्र उकारः उच्चरणार्थः । एवञ्च आगमेषु कृतेषु सर्स्मृ,सरिस्मृ,सरीस्मृ इति
त्रयः उपलभ्यन्ते । ततः लटि तिपि शपि सर्स्मृ
+ अ ति/ सरिस्मृ + अ ति/ सरीस्मृ + अ ति इति जाते अदिप्रभृतिभ्यः
शपः(२/४/७२) इति सूत्रेण शपः लुकि सर्स्मृ + ति/ सरिस्मृ + ति/ सरीस्मृ + ति इति जाते यङो वा(७/३/९५) इति सूत्रेण तिपः विकल्पेन ईडागमे सर्स्मृ + ई + ति/ सरिस्मृ + ई + ति/ सरीस्मृ + ई + ति इत्यवस्थायां सार्वधातुकार्धधातुकयोः(७/३/८५) इति सूत्रेण ऋकारस्य गुणे रपरत्वे च सर्स्मरीति/सरिस्मरीति/सरीस्मरीति इति रूपाणि सिद्ध्यन्ति ।
ईडागमाभावे सर्स्मर्ति/सरिस्मर्ति/सरीस्मर्ति इति रूपाणि भवन्ति । इत्थं स्मृधातोः यङ्लुकि
प्रथमपुरुषैकवचने षड्रूपाणि –
१.सर्स्मरीति २.सरिस्मरीति ३.सरीस्मरीति ४. सर्स्मर्ति ५.सरिस्मर्ति
६. सरीस्मर्ति
एवमन्येषु ऋकारान्तधातुषु अवगन्तव्यम् ।