ॐ वक्रतुण्डाय नमः
श्रमेव जयते?
किमिदं वाक्यं साधु? न । इदं वाक्यं सर्वथा असाधु एव । कुतः
इति जानीमहे ।
आदौ श्रमेव इत्यस्य साधुत्वमस्ति न वेति अवगच्छामः । तथाहि –
श्रमशब्दः पुंसि विद्यते । श्रम इत्यस्मात् प्रातिपदिकात् प्रथमाविभक्त्येकवचने सु
प्रत्यये अनुबन्धलोपे श्रमस् इति भवति । श्रमस् इत्यस्य सुप्तिङन्तं पदम्
(१/४/१४) इति सूत्रेण पदसंज्ञा अस्ति । श्रमस् इति पदस्य एव शब्देन सहान्वये
श्रमस् + एव इति स्थिते ससजुषो रुः(८/२/६६) इति सूत्रेण सकारस्य रुत्वे
श्रमर् + एव इति जाते भोभगोअघोअपूर्वस्य योऽशि (८/३/१७) इति सूत्रेण रेफस्य
यकारे श्रमय् + एव इति जाते लोपः शाकल्यस्य (८/३/१९) इति सूत्रेण यकारस्य
विकल्पेन लोपे “श्रम एव” इति सिद्ध्यति । लोपाभावपक्षे तु “श्रमयेव” इति भवति ।
संहितायां सत्यामेव सन्धिः भवति । वाक्ये संहिता विवक्षाधीना भवति । अतः संहितायाः
विवक्षाभावे “श्रमः एव” इत्येव साधुः ।
अथ जयते इत्यस्य विषये चिन्तयामः । प्रायः सत्यमेव जयते इति उपनिषद्वाक्यं
पश्यन्तः बहवः जिधातुः आत्मनेपदी इति मन्वते । स च भ्रम एव । वेदे एव आत्मनेपदस्य
साधुत्वात् । लोके तु जयति इत्येव साधु । तथाहि – जिधातुत्रयं दृश्यते धातुपाठे ।
यथा –
१.
जि जये (भ्वादिगणे) – जयः नाम उत्कर्षप्राप्तिः । अस्य लट् लकारे जयति इति
रूपम् ।
२.
जि अभिभवे (भ्वादिगणे) – अभिभवः इत्यस्य न्यूनीकरणं न्यूनीभवनं चार्थः । यदा
न्यूनीकरणमित्यर्थः तदा अयं धातुः सकर्मकः भवति । उदा- शत्रून् जयति । यदा
न्यूनीभवनमित्यर्थः तदा अयं धातुः अकर्मकः भवति । न्यूनीभवनमित्यर्थस्तु
उपसर्गयोगे भवति । यथा – पराजयते ।
उपसर्गयोगे तु आत्मनेपदत्वं विपराभ्यां जेः(१/३/१९) इति सूत्रेण ।
३.
जि भाषायाम् (चुरादिगणे) – अस्य तु जापयति इति रूपं भवति ।
उपर्युक्तवाक्ये जिधातुः उत्कर्षप्राप्तावेव प्रयुक्तः ।
अतः उपसर्गरहितस्य
आत्मनेपदविधायकसूत्राभावात् सः धातुः परस्मैपदप्रयोगमेवार्हति न तु
आत्मनेपदप्रयोगम् । वि अथवा परा इत्याभ्याम् उपसर्गाभ्यां योगे एव जि जये इति
धातुः आत्मनेपदप्रयोगमर्हति इति विवेकः । यथा “विजयते”, “पराजयते” इति ।
एवञ्च साधुवाक्यानि इमानि भवन्ति –
१.
श्रम एव जयति/ श्रमयेव जयति/ श्रमः एव जयति ।
२.
श्रम एव विजयते/ श्रमयेव विजयते/ श्रमः एव विजयते ।
No comments:
Post a Comment