Wednesday, 29 October 2014
श्रम एव जयति
ॐ वक्रतुण्डाय नमः
श्रमेव जयते?
किमिदं वाक्यं साधु? न । इदं वाक्यं सर्वथा असाधु एव । कुतः
इति जानीमहे ।
आदौ श्रमेव इत्यस्य साधुत्वमस्ति न वेति अवगच्छामः । तथाहि –
श्रमशब्दः पुंसि विद्यते । श्रम इत्यस्मात् प्रातिपदिकात् प्रथमाविभक्त्येकवचने सु
प्रत्यये अनुबन्धलोपे श्रमस् इति भवति । श्रमस् इत्यस्य सुप्तिङन्तं पदम्
(१/४/१४) इति सूत्रेण पदसंज्ञा अस्ति । श्रमस् इति पदस्य एव शब्देन सहान्वये
श्रमस् + एव इति स्थिते ससजुषो रुः(८/२/६६) इति सूत्रेण सकारस्य रुत्वे
श्रमर् + एव इति जाते भोभगोअघोअपूर्वस्य योऽशि (८/३/१७) इति सूत्रेण रेफस्य
यकारे श्रमय् + एव इति जाते लोपः शाकल्यस्य (८/३/१९) इति सूत्रेण यकारस्य
विकल्पेन लोपे “श्रम एव” इति सिद्ध्यति । लोपाभावपक्षे तु “श्रमयेव” इति भवति ।
संहितायां सत्यामेव सन्धिः भवति । वाक्ये संहिता विवक्षाधीना भवति । अतः संहितायाः
विवक्षाभावे “श्रमः एव” इत्येव साधुः ।
अथ जयते इत्यस्य विषये चिन्तयामः । प्रायः सत्यमेव जयते इति उपनिषद्वाक्यं
पश्यन्तः बहवः जिधातुः आत्मनेपदी इति मन्वते । स च भ्रम एव । वेदे एव आत्मनेपदस्य
साधुत्वात् । लोके तु जयति इत्येव साधु । तथाहि – जिधातुत्रयं दृश्यते धातुपाठे ।
यथा –
१.
जि जये (भ्वादिगणे) – जयः नाम उत्कर्षप्राप्तिः । अस्य लट् लकारे जयति इति
रूपम् ।
२.
जि अभिभवे (भ्वादिगणे) – अभिभवः इत्यस्य न्यूनीकरणं न्यूनीभवनं चार्थः । यदा
न्यूनीकरणमित्यर्थः तदा अयं धातुः सकर्मकः भवति । उदा- शत्रून् जयति । यदा
न्यूनीभवनमित्यर्थः तदा अयं धातुः अकर्मकः भवति । न्यूनीभवनमित्यर्थस्तु
उपसर्गयोगे भवति । यथा – पराजयते ।
उपसर्गयोगे तु आत्मनेपदत्वं विपराभ्यां जेः(१/३/१९) इति सूत्रेण ।
३.
जि भाषायाम् (चुरादिगणे) – अस्य तु जापयति इति रूपं भवति ।
उपर्युक्तवाक्ये जिधातुः उत्कर्षप्राप्तावेव प्रयुक्तः ।
अतः उपसर्गरहितस्य
आत्मनेपदविधायकसूत्राभावात् सः धातुः परस्मैपदप्रयोगमेवार्हति न तु
आत्मनेपदप्रयोगम् । वि अथवा परा इत्याभ्याम् उपसर्गाभ्यां योगे एव जि जये इति
धातुः आत्मनेपदप्रयोगमर्हति इति विवेकः । यथा “विजयते”, “पराजयते” इति ।
एवञ्च साधुवाक्यानि इमानि भवन्ति –
१.
श्रम एव जयति/ श्रमयेव जयति/ श्रमः एव जयति ।
२.
श्रम एव विजयते/ श्रमयेव विजयते/ श्रमः एव विजयते ।
Saturday, 25 October 2014
स्वास्थ्यसुधा
वायुः
पित्तं कफश्चेति त्रयो दोषाः समासतः विकृताऽविकृता
देहं घ्नन्ति ते वर्तयन्ति च ।
ते
व्यापिनोऽपि हृन्नाभ्योरधोमध्योर्ध्वसंश्रयाः ॥
अष्ट.सू.१.६-७
वातपित्तकफाख्याः त्रयो दोषाः शरीरे
प्रसिद्धाः । एते दोषा यदि विकृता भवन्ति तर्हि शरीरहानिं जनयन्ति, मृत्योश्च
कारणानि भवन्ति । यदि एते दोषाः सन्तुलिता भवन्ति तर्हि शरीरस्य सर्वा अपि क्रियाः
सुष्ठु सञ्चाल्य शरीरं पोषयन्ति ।
यद्यपि एते त्रयः शरीरस्य सर्वेषु
भागेषु भवन्ति तथापि प्राधान्येन वातः नाभेरधः, पित्तं नाभिहृदयोर्मध्ये, कफः
हृदयस्योर्ध्वभागे भवति ।
There are three
well-known doshas (disorder of
the three humours of the body) in the human body namely Vata (wind), Pitta
(bilious humour), Kapha Phelgm). If these doshas get unnatural
in any way it effects the body and may also cause death. If these doshas are in equal
proportion then every bodily action takes place well.
Though these doshas occupy whole
body but still every dosha has a specific
part occupied such as Vaata occupies area
below the Navel part. Pitta occupies area
between Navel and Heart and Kapha occupies area
above the heart.
Subscribe to:
Posts (Atom)