Friday, 27 February 2015

विशिष्टानां जैवनी - १

॥ॐ वक्रतुण्डाय नमः॥
महागणपतिं भक्त्या सर्वज्ञानप्रदायकम् ।
विघ्नविनाशकं नित्यं प्रणमामि मुहुर्मुहुः ॥

त एवं समाचरन्....
श्रीमान् थामस् आल्वा एडिसन् इत्याख्यः महान् सुप्रसिद्धश्च विज्ञानी बभूव । सः यस्मिन् गृहे न्यवसत् तस्य द्वारमतिविशिष्टमासीत् यस्योद्घाटने महान् श्रमः अपेक्षितः आसीत् । एडिसन् इति सुविख्यातः विज्ञानी कथमेतादृशं मौर्ख्यं समाचरत् इति सर्वोऽपि विस्मितः आसीत् । सुन्दरस्य विशिष्टस्य च गृहस्य अवैज्ञानिकं द्वारम् इति कथयन्तो हसितवन्त: जनाः । तथापि साक्षात् तस्मै कारणं प्रष्टुं न कस्याप्यासीद्धैर्यम् ।
कदाचित् एडिसन्महोदयस्य बन्धुः(यः बहुकृत्वः तद्गृहमागच्छत्) द्वारोद्घाटनसमस्यया सन्त्रस्तः तमस्मिन् विषये सधैर्यमप्राक्षीत् । प्रश्नं श्रुत्वा उच्चैः हसन् एडिसन् वर्योऽवादीत् – “अयि बन्धो ! इयमपि मदीया काचिद्रचना ।
“किम्? रचना वा? कोऽभिप्रायः भवतः वचनस्य? नाहमवगतवान् । कृपया विस्तरेण कथयतु ।“ इति सविस्मयमब्रवीत् ।
तदा तं द्वारं निकषा नयन् इत्थमाह एडिसन्वर्यः – “इदं द्वारं तथा निर्मितं अस्ति येन यदा कश्चित् मद्गृहस्य द्वारमुद्घाट्य मद्गृहं प्रविशति तदा तस्य द्वरोद्घाटनप्रयासेन मदीयगृहस्य दीर्घिकायां(Tank) पञचाशत् लीटर् परिमितं (कूपादाकृष्टम्) जलं स्वयमेव पूरितं भवति । अवगतं ननु ?

ऎडिसन्द्वारा कल्पितायाः अस्याः जलपूरणव्यवस्थायाः कौशलं वीक्ष्य तस्य धीशक्तिं प्रशंसन् बन्धुः निर्गतः ।

Wednesday, 25 February 2015

सूक्तयः - २


सूक्तयः
(संस्कृतार्थसहितम्)

एकमाशीविषो हन्ति शस्त्रेणैकश्च वध्यते ।
हन्ति विप्रः सराष्ट्राणि पुराण्यपि कोपितः ॥१॥
                                                                (महाभारतम्/आदिपर्वः/८१/२५)
अर्थः – क्रोधः किं किं न नाशयति । परन्तु क्रोधः परिणामः विविधः दृश्यते । तद्यथा यदा सर्पः कृद्धः भवति कश्चिदेकः म्रियते । यदा शास्त्रकोपः भवति तदापि एक एव हतो भवति । (शास्त्रविषये यदा अध्येता अवज्ञां प्रदर्शयति तदा शास्त्रस्य अंशान् सः विस्मरति येन सभादिषु सः अवमानितो भवति । विदुषः सभायाम् अपमानः मृत्युतुल्यः भवति ) । परन्तु यदा कश्चित् विप्रः(ब्राह्मणः) कृद्धः भवति तदा तस्य क्रोधः नगराणि राष्ट्राणि च समूलं विनाशयति ।
 एकमेव तु शूद्रस्य प्रभुः कर्म समादिशत् ।
 एतेषामेव वर्णानां शुश्रूषामनसूयया ॥२॥
                                                                     (मनुस्मृतिः-१/९१)
अर्थः – परमात्मा समाजप्रक्रियायाः सुष्ठु निर्वहणाय मनुष्येषु कार्यविभागं कृतवान् । तत्र शूद्रेभ्यः एकमेव कर्म समादिष्टं भगवता तद्धि ब्राह्मणशूद्रविशां श्रद्धया असूयां विना सेवा । (असूया नाम गुणेषु दोषाविष्करणम्) ।

एकवृक्षसमारूढा नानावर्णा विहङ्गमाः ।
 प्रभाते दिक्षु गच्छन्ति, तत्र का परिदेवना ॥३॥
                                                                                         (चाणक्यनीतिः-१०/१५)
अर्थः – यत्र महान् वृक्षः भवति तत्र वृक्षे बहवः पक्षिणः वसन्ति, आश्रयं वा प्राप्नुवन्ति । ते हि पक्षिणः रात्रौ आगत्य तस्य वृक्षस्य आश्रयं स्वीकुर्वन्ति । रात्रौ तत्र विश्रम्य प्रातः विविधेषु दिक्षु गच्छन्ति । तत्र शोकस्य न किञ्चित् कारणमस्ति । यतः अयं हि प्रकृतेः नियमः । तद्वदेव अस्मिन् संसाररूपवृक्षे बहवः आगत्य आश्रयं स्वीकुर्वन्ति, बन्धुत्वञ्च प्राप्नुवन्ति । काले समायते विविधेषु दिक्षु गच्छन्ति मरणं वा प्राप्नुवन्ति । यथोक्तं जातस्य हि ध्रुवो मृत्युः । अयं हि लोकस्य नियमः, अतस्तत्र शोको न कर्तव्यः ।

एकस्य कर्म संविक्ष्य करोत्यन्योऽपि गर्हितम् ।
गतानुगतिको लोको न लोकः पारमार्थिकः ॥४॥
                                                                                 (पञ्चतन्त्रम्-१/१७७)
अर्थः – लोकस्य कश्चन विचित्रस्वभावः अयम् अनुकरणरूपः । अनुकरणम् उत्तमं दुष्टं वा भवितुमर्हति । तत्र केचन दुष्टान् केचन साधून् अनुसरन्ति । कस्यचित् एकस्य दुष्कर्मणा प्राप्तं लाभं दृष्ट्वा अविचार्य तस्मिन् कर्मणि मनुष्यः आत्मानं प्रवर्तयति । यथा अन्धाः अन्धाननुसरन्ति तथैव बहवो हि अस्मिन् समाजे अविचार्य अन्याननुसरन्ति । परमार्थः कः? किं युक्तम् ? किञ्च अयुक्तम् इति नैव चिन्तयन्ति ।
एक एव हि वन्ध्यायाः शोको भवति मानसः ।
अप्रजास्मीति सन्तापो न ह्यन्यः पुत्र विद्यते ॥ ५॥
                                                        वा.रा.अयोध्याकाण्डम् २०/३७

अर्थः – अस्मिन् श्लोके कौसल्या रामं प्रति वदति – “ हे वत्स ! वन्ध्यायाः मनसि मम अपत्यं नास्ति इत्येकमेव दुःखं न कोऽप्यन्यः । (वन्ध्या – अपत्य(पुत्रः/पुत्री)रहिता स्त्री) ।

Saturday, 21 February 2015

सूक्तयः - १

सूक्तयः    
(संस्कृतार्थसहितम्)

 ऋषियज्ञं देवयज्ञं भूतयज्ञं च सर्वदा ।
     नृयज्ञं पितृयज्ञं च यथाशक्ति न हापयेत् ॥१॥

अर्थः – द्विजन्मनाम्(ब्राहमणक्षत्रियविशां) इदं कर्तव्यं भवति यत्ते नित्यं ऋषियज्ञं, देवयज्ञं, भूतयज्ञं, नृयज्ञं पितृयज्ञम् इत्येतान् पञ्च महायज्ञान् कुर्युः ।यथाशक्ति कर्मणां त्यागो यथा न स्यात् तथा यत्नं च कुर्युः ।
ऋषिषूत्क्रामत्सु मनुष्या देवानब्रुवन्
को न ऋषिर्भविष्यतीति ?
ते मनुष्येभ्यः तर्कमृषिमप्रयच्छन् ॥२॥
अर्थः – यदा जगति तत्त्ववेत्तारो ऋषयः अल्पा अभूवन् तदा मानवा विदुषः पृष्टवन्तः-“अयि विद्वांसः! एतेषां अधुना विद्यमानानाम् ऋषीणामनन्तरं को वा अस्माकं मर्गदर्शनं करिष्यति ?” प्रश्नं श्रुत्वा विद्वांसः अब्रुवन् – “ऋषीणामभावे तर्काः(युक्तयः) एव मनुष्याणां मर्गदर्शनं करिष्यन्ति ।

एकं मनुष्यमप्येकं गुणैरपि समन्वितम् ।
शक्यं द्विषन्तो मन्यन्ते वायुर्द्रुममिवैकजम् ॥३॥
                                                                                                                                                                                (विदुरनीतिः ४-अध्यायः)
अर्थः – बहुषु गुणेषु विद्यमानेऽपि एकः अद्वितीयः मानवः शत्रुभिर्जितो भवति, तद्यथा एकः महान् वृक्षः सुदृढमूलवानपि वायुना उत्पाटितो भवति ।

एकदेशं तु वेदस्य वेदाङ्गान्यपि वा पुनः ।
योऽध्यापयति वृत्त्यर्थमुपाध्यायः स उच्यते ॥४॥
                                                                           (मनुस्मृतिः २/१४६)
अर्थः – यः आजीविकार्थं वेदस्य कञ्चिद्भागम्, वेदाङ्गं वा पाठयति सः उपाध्यायः इत्युच्यते ।

एकपादो भूयो द्विपादो विचक्रमे
द्विपात्त्रिपादमभ्येति पश्चात् ।
चतुष्पादेति द्विपदामभिस्वरे
सम्पश्यन्पङ्क्तीरुपतिष्ठमानः ॥५॥
                                                                 (ऋग्वेदः- १०/११७/८)
अर्थः – समाजे मनुष्यस्य एते स्वभावाः बहुधा अवलोक्यन्ते । तद्यथा - एकांशयुक्तः मनुष्यः, तस्य अंशस्य द्विगुणं प्राप्तुम् इच्छति । द्विगुणं यः प्राप्नोति सः त्रिगुणं वाञ्छति । त्रिगुणं यः प्राप्नोति सः ततोऽप्यधिकं चतुर्गुणं वाञ्छति । परन्तु यः चतुर्गुणं प्राप्तवान् (अर्थात् यः भावयति अहं सर्वं प्राप्तवान् अस्मि, अहं तृप्तः अस्मि) सः पूर्वोक्तपङ्क्तीः पश्यन् तत्र विद्यमानान् सर्वानपि उन्नेतुं प्रयतते ।