Wednesday, 25 February 2015

सूक्तयः - २


सूक्तयः
(संस्कृतार्थसहितम्)

एकमाशीविषो हन्ति शस्त्रेणैकश्च वध्यते ।
हन्ति विप्रः सराष्ट्राणि पुराण्यपि कोपितः ॥१॥
                                                                (महाभारतम्/आदिपर्वः/८१/२५)
अर्थः – क्रोधः किं किं न नाशयति । परन्तु क्रोधः परिणामः विविधः दृश्यते । तद्यथा यदा सर्पः कृद्धः भवति कश्चिदेकः म्रियते । यदा शास्त्रकोपः भवति तदापि एक एव हतो भवति । (शास्त्रविषये यदा अध्येता अवज्ञां प्रदर्शयति तदा शास्त्रस्य अंशान् सः विस्मरति येन सभादिषु सः अवमानितो भवति । विदुषः सभायाम् अपमानः मृत्युतुल्यः भवति ) । परन्तु यदा कश्चित् विप्रः(ब्राह्मणः) कृद्धः भवति तदा तस्य क्रोधः नगराणि राष्ट्राणि च समूलं विनाशयति ।
 एकमेव तु शूद्रस्य प्रभुः कर्म समादिशत् ।
 एतेषामेव वर्णानां शुश्रूषामनसूयया ॥२॥
                                                                     (मनुस्मृतिः-१/९१)
अर्थः – परमात्मा समाजप्रक्रियायाः सुष्ठु निर्वहणाय मनुष्येषु कार्यविभागं कृतवान् । तत्र शूद्रेभ्यः एकमेव कर्म समादिष्टं भगवता तद्धि ब्राह्मणशूद्रविशां श्रद्धया असूयां विना सेवा । (असूया नाम गुणेषु दोषाविष्करणम्) ।

एकवृक्षसमारूढा नानावर्णा विहङ्गमाः ।
 प्रभाते दिक्षु गच्छन्ति, तत्र का परिदेवना ॥३॥
                                                                                         (चाणक्यनीतिः-१०/१५)
अर्थः – यत्र महान् वृक्षः भवति तत्र वृक्षे बहवः पक्षिणः वसन्ति, आश्रयं वा प्राप्नुवन्ति । ते हि पक्षिणः रात्रौ आगत्य तस्य वृक्षस्य आश्रयं स्वीकुर्वन्ति । रात्रौ तत्र विश्रम्य प्रातः विविधेषु दिक्षु गच्छन्ति । तत्र शोकस्य न किञ्चित् कारणमस्ति । यतः अयं हि प्रकृतेः नियमः । तद्वदेव अस्मिन् संसाररूपवृक्षे बहवः आगत्य आश्रयं स्वीकुर्वन्ति, बन्धुत्वञ्च प्राप्नुवन्ति । काले समायते विविधेषु दिक्षु गच्छन्ति मरणं वा प्राप्नुवन्ति । यथोक्तं जातस्य हि ध्रुवो मृत्युः । अयं हि लोकस्य नियमः, अतस्तत्र शोको न कर्तव्यः ।

एकस्य कर्म संविक्ष्य करोत्यन्योऽपि गर्हितम् ।
गतानुगतिको लोको न लोकः पारमार्थिकः ॥४॥
                                                                                 (पञ्चतन्त्रम्-१/१७७)
अर्थः – लोकस्य कश्चन विचित्रस्वभावः अयम् अनुकरणरूपः । अनुकरणम् उत्तमं दुष्टं वा भवितुमर्हति । तत्र केचन दुष्टान् केचन साधून् अनुसरन्ति । कस्यचित् एकस्य दुष्कर्मणा प्राप्तं लाभं दृष्ट्वा अविचार्य तस्मिन् कर्मणि मनुष्यः आत्मानं प्रवर्तयति । यथा अन्धाः अन्धाननुसरन्ति तथैव बहवो हि अस्मिन् समाजे अविचार्य अन्याननुसरन्ति । परमार्थः कः? किं युक्तम् ? किञ्च अयुक्तम् इति नैव चिन्तयन्ति ।
एक एव हि वन्ध्यायाः शोको भवति मानसः ।
अप्रजास्मीति सन्तापो न ह्यन्यः पुत्र विद्यते ॥ ५॥
                                                        वा.रा.अयोध्याकाण्डम् २०/३७

अर्थः – अस्मिन् श्लोके कौसल्या रामं प्रति वदति – “ हे वत्स ! वन्ध्यायाः मनसि मम अपत्यं नास्ति इत्येकमेव दुःखं न कोऽप्यन्यः । (वन्ध्या – अपत्य(पुत्रः/पुत्री)रहिता स्त्री) ।

No comments:

Post a Comment