सूक्तयः
(संस्कृतार्थसहितम्)
ऋषियज्ञं देवयज्ञं भूतयज्ञं च सर्वदा ।
नृयज्ञं
पितृयज्ञं च यथाशक्ति न हापयेत् ॥१॥
अर्थः –
द्विजन्मनाम्(ब्राहमणक्षत्रियविशां) इदं कर्तव्यं भवति यत्ते नित्यं ऋषियज्ञं,
देवयज्ञं, भूतयज्ञं, नृयज्ञं पितृयज्ञम् इत्येतान् पञ्च महायज्ञान् कुर्युः
।यथाशक्ति कर्मणां त्यागो यथा न स्यात् तथा यत्नं च कुर्युः ।
ऋषिषूत्क्रामत्सु मनुष्या देवानब्रुवन्
को
न ऋषिर्भविष्यतीति ?
ते
मनुष्येभ्यः तर्कमृषिमप्रयच्छन् ॥२॥
अर्थः – यदा जगति तत्त्ववेत्तारो ऋषयः
अल्पा अभूवन् तदा मानवा विदुषः पृष्टवन्तः-“अयि विद्वांसः! एतेषां अधुना
विद्यमानानाम् ऋषीणामनन्तरं को वा अस्माकं मर्गदर्शनं करिष्यति ?” प्रश्नं
श्रुत्वा विद्वांसः अब्रुवन् – “ऋषीणामभावे तर्काः(युक्तयः) एव मनुष्याणां
मर्गदर्शनं करिष्यन्ति ।
एकं मनुष्यमप्येकं गुणैरपि समन्वितम् ।
शक्यं
द्विषन्तो मन्यन्ते वायुर्द्रुममिवैकजम् ॥३॥
(विदुरनीतिः ४-अध्यायः)
अर्थः – बहुषु गुणेषु विद्यमानेऽपि एकः
अद्वितीयः मानवः शत्रुभिर्जितो भवति, तद्यथा एकः महान् वृक्षः सुदृढमूलवानपि
वायुना उत्पाटितो भवति ।
एकदेशं तु वेदस्य वेदाङ्गान्यपि वा पुनः ।
योऽध्यापयति
वृत्त्यर्थमुपाध्यायः स उच्यते ॥४॥
(मनुस्मृतिः २/१४६)
अर्थः – यः आजीविकार्थं वेदस्य कञ्चिद्भागम्, वेदाङ्गं वा पाठयति सः उपाध्यायः
इत्युच्यते ।
एकपादो भूयो द्विपादो विचक्रमे
द्विपात्त्रिपादमभ्येति
पश्चात् ।
चतुष्पादेति द्विपदामभिस्वरे
सम्पश्यन्पङ्क्तीरुपतिष्ठमानः
॥५॥
(ऋग्वेदः- १०/११७/८)
अर्थः – समाजे मनुष्यस्य एते स्वभावाः बहुधा अवलोक्यन्ते । तद्यथा -
एकांशयुक्तः मनुष्यः, तस्य अंशस्य द्विगुणं प्राप्तुम् इच्छति । द्विगुणं यः
प्राप्नोति सः त्रिगुणं वाञ्छति । त्रिगुणं यः प्राप्नोति सः ततोऽप्यधिकं
चतुर्गुणं वाञ्छति । परन्तु यः चतुर्गुणं प्राप्तवान् (अर्थात् यः भावयति अहं
सर्वं प्राप्तवान् अस्मि, अहं तृप्तः अस्मि) सः पूर्वोक्तपङ्क्तीः पश्यन् तत्र
विद्यमानान् सर्वानपि उन्नेतुं प्रयतते ।
No comments:
Post a Comment