Tuesday, 28 July 2015

पदामृतम्

                                       ॐ वक्रतुण्डाय नमः
                         अश्वत्थामञ्छब्दविचारः
अश्वस्य इव स्थाम = बलम् अस्य इति अश्वत्थामन् । अस्य शब्दस्य प्रथमैकवचने अश्वत्थामा इति रूपम् । अत्र सकारस्य तकारादेशः पृषोदरादित्वात् इति वक्तव्यम् । पृषोदरादीनि यथोपदिष्टम् (पा.सू.६/३/१०९) इत्यस्मिन् सूत्रे शिष्टप्रयुक्तानां शब्दानां सङ्ग्रहः क्रियते । शिष्टप्रयुक्ताः शब्दाः तथैव प्रयोक्तव्याः यथा तैः प्रयुक्ताः । अयं हि आकृतिगणः । के पुनः शिष्टाः? इति जिज्ञासायां तस्मिन्नेव सूत्रे भगवान् पतञ्जलिराह – “एतस्मिन्नार्यावर्ते आर्यनिवासे ये ब्राह्मणाः कुम्भीधान्याः अलोलुपाः अगृह्यमाणकारणाः किञ्चिदन्तरेण कस्याश्चिद्विद्यायाः पारं गतास्तत्र भवन्तः शिष्टाः । [ कुम्भीधान्या – कुम्भ्यामेव येषां धान्यम्; अगृह्यमाणकारणाः – दृष्टं कारणमन्तरेणैव(कारणं विनैव । दृष्टं कारणं लाभपूजादि ।) सदाचारानुवर्तिन इत्यर्थः । किञ्चिदन्तरेण इति – विनैवाभियोगादिना (अभियोगः – गुरूपदेशः । आदिना अभ्यासादिः) सर्वविद्यापारगाः ते हि साधुत्वपरिज्ञाने प्रमाणम् इति कैयटः]
अश्वत्थाम इत्ययं शब्दः पुंसि विद्यते । अश्वत्थामा द्रोणाचार्यस्य पुत्रः, अस्य माता कृपाचार्यस्य स्वसा कृपी आसीत् । यदा अस्य जन्म अभूत् तदा अयं अश्व इव उच्चैः आक्रोषं कृतवान् तस्मादस्य नाम अश्वत्थामा इत्यभूत् । तदुक्तं महाभारतस्य आदिपर्वणि –
स जातमात्रो व्यनदद्यथैवोच्चैःश्रवा हयः ।
तच्छ्रुत्वान्तर्हितं भूतमन्तरीक्षस्थमब्रवीत् ॥
अश्वस्येवास्य यत् स्थाम नदशः प्रदिशो गतम् ।
अश्वत्थामैव बालोऽयं तस्मान्नाम्ना भविष्यति ॥
                        (महाभारतम् आदिपर्व १४०-४९)
अश्वत्थामा इत्ययं कौरवसेनायामतीवपराक्रमी योद्धा आसीत् ।

No comments:

Post a Comment