Wednesday, 29 October 2014

पदामृतम्

स्वास्थ्यसुधा-२



श्रम एव जयति

ॐ वक्रतुण्डाय नमः
श्रमेव जयते?
किमिदं वाक्यं साधु? न । इदं वाक्यं सर्वथा असाधु एव । कुतः इति जानीमहे ।
आदौ श्रमेव इत्यस्य साधुत्वमस्ति न वेति अवगच्छामः । तथाहि – श्रमशब्दः पुंसि विद्यते । श्रम इत्यस्मात् प्रातिपदिकात् प्रथमाविभक्त्येकवचने सु प्रत्यये अनुबन्धलोपे श्रमस् इति भवति । श्रमस् इत्यस्य सुप्तिङन्तं पदम् (१/४/१४) इति सूत्रेण पदसंज्ञा अस्ति । श्रमस् इति पदस्य एव शब्देन सहान्वये श्रमस् + एव इति स्थिते ससजुषो रुः(८/२/६६) इति सूत्रेण सकारस्य रुत्वे श्रमर् + एव इति जाते भोभगोअघोअपूर्वस्य योऽशि (८/३/१७) इति सूत्रेण रेफस्य यकारे श्रमय् + एव इति जाते लोपः शाकल्यस्य (८/३/१९) इति सूत्रेण यकारस्य विकल्पेन लोपे “श्रम एव” इति सिद्ध्यति । लोपाभावपक्षे तु “श्रमयेव” इति भवति । संहितायां सत्यामेव सन्धिः भवति । वाक्ये संहिता विवक्षाधीना भवति । अतः संहितायाः विवक्षाभावे “श्रमः एव” इत्येव साधुः ।
अथ जयते इत्यस्य विषये चिन्तयामः । प्रायः सत्यमेव जयते इति उपनिषद्वाक्यं पश्यन्तः बहवः जिधातुः आत्मनेपदी इति मन्वते । स च भ्रम एव । वेदे एव आत्मनेपदस्य साधुत्वात् । लोके तु जयति इत्येव साधु । तथाहि – जिधातुत्रयं दृश्यते धातुपाठे । यथा –
१.   जि जये (भ्वादिगणे) – जयः नाम उत्कर्षप्राप्तिः । अस्य लट् लकारे जयति इति रूपम् ।
२.   जि अभिभवे (भ्वादिगणे) – अभिभवः इत्यस्य न्यूनीकरणं न्यूनीभवनं चार्थः । यदा न्यूनीकरणमित्यर्थः तदा अयं धातुः सकर्मकः भवति । उदा- शत्रून् जयति । यदा न्यूनीभवनमित्यर्थः तदा अयं धातुः अकर्मकः भवति । न्यूनीभवनमित्यर्थस्तु उपसर्गयोगे भवति । यथा – पराजयते  । उपसर्गयोगे तु आत्मनेपदत्वं विपराभ्यां जेः(१/३/१९) इति सूत्रेण ।
३.   जि भाषायाम् (चुरादिगणे) – अस्य तु जापयति इति रूपं भवति ।

उपर्युक्तवाक्ये जिधातुः उत्कर्षप्राप्तावेव प्रयुक्तः । अतः उपसर्गरहितस्य  आत्मनेपदविधायकसूत्राभावात् सः धातुः परस्मैपदप्रयोगमेवार्हति न तु आत्मनेपदप्रयोगम् । वि अथवा परा इत्याभ्याम् उपसर्गाभ्यां योगे एव जि जये इति धातुः आत्मनेपदप्रयोगमर्हति इति विवेकः । यथा “विजयते”, “पराजयते” इति ।

एवञ्च साधुवाक्यानि इमानि भवन्ति –
१.   श्रम एव जयति/ श्रमयेव जयति/ श्रमः एव जयति ।

२.   श्रम एव विजयते/ श्रमयेव विजयते/ श्रमः एव विजयते ।

Saturday, 25 October 2014

स्वास्थ्यसुधा

वायुः पित्तं कफश्चेति त्रयो दोषाः समासतः           विकृताऽविकृता देहं घ्नन्ति ते वर्तयन्ति च ।            
ते व्यापिनोऽपि हृन्नाभ्योरधोमध्योर्ध्वसंश्रयाः ॥ अष्ट.सू.१.६-७
  वातपित्तकफाख्याः त्रयो दोषाः शरीरे प्रसिद्धाः । एते दोषा यदि विकृता भवन्ति तर्हि शरीरहानिं जनयन्ति, मृत्योश्च कारणानि भवन्ति । यदि एते दोषाः सन्तुलिता भवन्ति तर्हि शरीरस्य सर्वा अपि क्रियाः सुष्ठु सञ्चाल्य शरीरं पोषयन्ति ।
  यद्यपि एते त्रयः शरीरस्य सर्वेषु भागेषु भवन्ति तथापि प्राधान्येन वातः नाभेरधः, पित्तं नाभिहृदयोर्मध्ये, कफः हृदयस्योर्ध्वभागे भवति ।
  There are three well-known doshas (disorder of the three humours of the body) in the human body namely Vata (wind), Pitta (bilious humour), Kapha Phelgm). If these doshas get unnatural in any way it effects the body and may also cause death. If these doshas are in equal proportion then every bodily action takes place well.

  Though these doshas occupy whole body but still every dosha has a specific part occupied such as Vaata occupies area below the Navel part. Pitta occupies area between Navel and Heart and Kapha occupies area above the heart.

Thursday, 31 October 2013

स्वास्थ्यसुधा-3





किञ्चिच्छारीरकम्

भुक्तं पक्वाशयादन्नं द्विधा याति च सुश्रुत ।

अंशेनैकेन किट्टत्वं रसतां चापरेण च ॥


                                                                              अग्निपुराणम् २८०/७

सर्वोपि प्राणवान् स्वशरीरपोषणाय आहारम् अश्नाति । परं स्वीकृतः आहारः शरीरे कथं विभक्तो भवति इति तु केचिदेव जानन्ति । अत एव अग्निपुराणस्यायं श्लोकः अत्र समेषामुपकारय ज्ञानवर्धनाय च इह विव्रीयते ।

श्लोकस्यास्य
अन्वयः – भुक्तमन्नं द्विधा याति पक्वाशयाद्, एकेन अंशेन किट्टत्वम् अपरेण रसताम् ।
अर्थः -  आहारो यन्मनुष्योऽश्नाति स च पक्वाशयाद् द्विधा विभज्यते । तथा च एको हि भागः किट्टत्वं प्राप्नोति । किट्टं नाम मलम् । तथा चोक्तम् अमरे – किट्टं मलोऽस्त्रियाम् । तथा च मेदिन्याम् – मलोऽस्त्री पापविट्-किट्टे कृपणे त्वभिधेयवत् । इति । नासिकागतः, कर्णगतः, तथा देहस्य अन्यभागगतमलानि किट्टत्वेन व्यवह्रियन्ते । किट्टञ्च विष्ठा, मूत्रम्, स्वेदः इत्यादि भेदेन भिद्यन्ते ।
          भोजनस्य अपरो भागः रसताम् एति । स च रसभागः रुधिररूपं प्राप्नोति, रक्तात् मांसरूपम्, मांसात् मेधः,मेधसोऽस्थिः, अस्थेः मज्जा, मज्जया वीर्यम्, वीर्यादोजस्सम्भवति । अयञ्च विचारः अग्निपुराणे उपलभ्यते ।


Every Living being in this universe consumes food for growth. But there are very few who know how the food is being divided in our body. So here is the fact about it which is mentioned in अग्निपुराणम्  one of the source of our ancient medical science. According to it when the food gets digested it also gets divided into two parts as 1. किट्ट 2. रस.  First one kitta is nothing but excretion which excretes from various parts of body as ears, nose etc. Example of Kitta is Sweat, Urine etc.

          Second one is Rasa (Lymph) which gets converted into Rakta(Blood), Rakta then gets converted to Mamsa(Muscle), Mamsa to Medha(Fat), Medha to Asthi(Bones), Asthi  to Majja(Bone Marrow), Majja to Veerya/Shukra(Semen), Veerya to Ojas(Vigor). We find these details in Agnipurana.


ಪ್ರಪಂಚದಲ್ಲಿ ಇರುವ ಎಲ್ಲಾ ಪ್ರಾಣಿಯು ಶರೀರ ವೃದ್ಧಿಗೋಸ್ಕರ ಆಹಾರವನ್ನು ಸೇವಿಸುತ್ತವೆ. ಆದರೆ, ಹೀಗೆ ಶರೀರ ತೆಗೆದುಕೊಂಡಿರುವ ಆಹಾರ ಹೇಗೆ ವಿಭಜನೆ ಆಗುತ್ತದೆ ಎಂಬುದು ಎಲ್ಲರಿಗೂ ತಿಳಿದಿರುವುದಿಲ್ಲಾ  ಹಾಗಾಗಿ ಅಗ್ನಿ ಪುರಾಣದಲ್ಲಿ ಇದರ ಬಗ್ಗೆ ತಿಳಿಸಿರುವ ವಿಚಾರ ಇಲ್ಲಿದೆ.
        ಜೀವಿಗಳು ಸೇವಿಸಿದ ಆಹಾರವು ಕಿಟ್ಟ ಮತ್ತು ರಸ ಎಂಬ ಎರಡು ಪ್ರಾಕಾರದಲ್ಲಿ ವಿಭಾಗ ಹೊಂದುತ್ತದೆ. ಶರೀರದಲ್ಲಿನ ಧಾತುವಿನಿಂದ ಉಂಟಾಗಿರುವ ಮಲಕ್ಕೆ ಕಿಟ್ಟ ಎನ್ನುವರು . ಈ ಕಿಟ್ಟ ಎನ್ನುವುದು  ಕಿವಿ, ಮೂಗು, ಬಾಯಿ ಹಾಗೂ ದೇಹದ ಇತರ ಭಾಗಗಳಿಂದ ಹೊರಬರುತ್ತದೆ. ಬೆವರು, ಮಲ ಮೂತ್ರಾದಿಗಳು ಇದಕ್ಕೆ ಉದಾಹರಣೆ. 

        ಎರಡನೇ ಪ್ರಕಾರ, ರಸ ರಕ್ತವಾಗಿ ಪರಿವರ್ತನೆ ಹೊಂದುತ್ತದೆ. ಆ ರಕ್ತವು ಮಾಂಸವಾಗುತ್ತದೆ. ಮಾಂಸವು ಮೇದಸ್ಸಾಗಿ, ಮೇದಸ್ಸು ಅಸ್ಥಿಯಾಗಿ ( ಎಲುಬು) , ಅಸ್ತಿಯು ಮಜ್ಜೆಯಾಗಿ, ಮಜ್ಜೆಯು ವೀರ್ಯವಾಗಿ, ಈ ವೀರ್ಯವು ಓಜಸ್ಸಾಗಿ ಪರಿವರ್ತನೆ ಹೊಂದುತ್ತದೆ.