Saturday, 7 March 2015

विशिष्टानां जैवनी - ३

॥ॐ वक्रतुण्डाय नमः॥
महागणपतिं भक्त्या सर्वज्ञानप्रदायकम् ।
विघ्नविनाशकं नित्यं प्रणमामि मुहुर्मुहुः ॥

त एवं समाचरन्....
  •    नेपोलियन् बोनपार्ट्

नेपोलियन् बोनपार्ट् इत्याख्यः कश्चन महान् राजा बभूव । तस्य बाल्ये तस्य शुश्रूषार्थं काचित् दासी नियुक्ता आसीत् । कमिला लारी इति नाम्न्याः तस्याः नेपोलियन्वर्ये महती प्रीतिरासीत् । तं पुत्रवत् पर्यपालयच्च । शुश्रूषायां न कञ्चनलोपमकार्षीत् सा ।
पञ्चत्रिंशद्वर्षानन्तरं नेपोलियन्वर्यः फ्रांसदेशस्य राजत्वं प्रापत्, तदा सः स्वकीयं राज्याभिषेकं कर्तुं निश्चिचाय । एनां वार्तां श्रुतवन्तस्तत्प्रजाः अतीव हर्षेण पेरिसनगरम् सम्यगलमकार्षुः । सर्वत्रापि आनन्दः प्रसृतः आसीत् ।
इयं हि वार्ता सर्वत्र फ्रांसदेशे प्रसृता अभूत् । कर्णाकर्णिकया इमां वार्तां कमिला लारी अपि अश्रौषीत् । सा उद्विग्ना जाता । सा नेपोलियन्वर्यस्य मेलनं निश्चिकाय । परन्तु झटिति तस्याः मनसि “नेपोलियन् इदानीं ज्येष्ठः संवृत्तः, एकं महान्तं देशमेव शास्ति सः । किं मादृशां दरिद्राम् अल्पज्ञां दासीं सः परिचिनुयात्?” इति सन्देहः समुत्पन्नः । गन्तव्यं न वा इति चिन्तयितुम् आरब्धवति ।
अन्ततो गत्वा यद्भवितव्यं तद्भवतु, गमिष्याम्येव पेरिस्नगरम् इति निश्चित्य आत्मप्रियं नेपोलियन्वर्यं मेलितुं पेरिस्नगरं समाययौ । नेपोलियन्वर्यस्य सङ्केतमन्विष्यन् राजप्रसादं प्रापत्, तत्र दौवारिकान् “अहं महाराजं दिदृक्षामि, कृपया अवकाशं कल्पयन्तु” इति प्रार्थयामास । परन्तु विनष्टवेशां तां वीक्ष्य इयं काचिदुन्मत्ता इति भावयित्वा तां प्रताडयन् ।
सहसा काकतालीयेन स्वयं नेपोलीयन्वर्यस्य यानं तस्मिन् पथि समागात् । तत्रोपविष्टः नेपोलीयन्वर्यः कामिलालारीम् अद्राक्षीत् । आशु यानादवतीर्य, तामुपसर्प्य समालिङ्गत् ।
अग्रिमे दिने उत्सवावसरे सभायां तां दासीं वैभवेन सत्कृत्य राज्ञ्याः जोसेफायिन्वर्यायाः कण्ठे विद्यमानां अमूल्यां रत्नमालाम् उपायनीकृतवान् ।
अनेन कर्मणा, विशिष्टाः कदापि प्राप्तां सेवां न विस्मरन्ति इति समाजाय अबूबुधत् नेपोलियन्वर्यः ।


Sunday, 1 March 2015

विशिष्टानां जैवनी - २

॥ॐ वक्रतुण्डाय नमः॥
महागणपतिं भक्त्या सर्वज्ञानप्रदायकम् ।
विघ्नविनाशकं नित्यं प्रणमामि मुहुर्मुहुः ॥

त एवं समाचरन्....
  •  कविराजः भूषणः

शिवाजीमहारजस्य काले भूषणनामकः प्रसिद्धः कविरभूत् । तस्य मनसि राज्ञः विषये महती श्रद्धा भक्तिश्च आसीत् । अत एव सः महारजमधिकृत्य बहूनि सुन्दराणि आह्लादकानि च काव्यानि रचयामास । तस्य जीवनस्य कश्चन प्रसङ्गः अत्रोल्लिख्यते ।
भूषणः स्वबन्धोः कस्यचित् गृहे न्यवसत् । परन्तु कालान्तरे केनचित् कारणेन सः अन्यत्र गन्तुं निश्चितवान् । “यवनराज्ये न वस्तव्यम्” इति तस्य प्रतिज्ञा (तस्मिन् काले भारतस्य बहुषु भागेषु मुगलराज्यमासीत्) । अतः सः देहल्याः प्रस्थाय कमाऊनपर्वतस्थस्य हिन्दुराजस्य आश्रयं स्व्यकार्षीत् । अल्पे एव काले सः स्वकाव्यरचनाकौशलेन राज्ञः मनः अमूमुदत् ।
कदाचित् सः राजा भूषणस्य काव्यकौशलेन प्रसन्नः तस्मै लक्षरूप्यकाणां पुरस्कारं दत्त्वा सगर्वमुवाच – “ हे भूषण ! मादृशो दाता अस्यां पृथिव्यां न भूतो न भविष्यति । तस्मात्तुभ्यं न कश्चिदन्यः एवं पुरस्कारं प्रदास्यति” इति ।
भूषणाय राज्ञः अहङ्कारपूर्णानि वचांसि नारोचिषन्त । सः अविलम्बमवादीत् – “राजन् ! त्वया यदुच्यते तन्नाहमङ्गीकरोमि । तव सदृशाः सहस्राधिकाः दानशूराः अमुष्यां वसुधायां विद्यन्ते । परन्तु गर्वपूर्णवचोभिः पुरस्कृतानि लक्षरूप्यकाणि तुच्छानि इति मन्वानः मादृशः कविः न कदाचित् अद्यावधि दृष्टः स्यात्” ।
एवमुक्त्वा लक्षरूप्यकं तद्दानं तत्रैव स्थापयित्वा भूषणः सभायाः आशु निरगमत् ।


भूषणः विशिष्टः, यः लक्षरूप्यकाणां महद्धनं पर्यत्याक्षीत्, तादृशाः विरला एव अस्यामवन्याम् ।

Friday, 27 February 2015

विशिष्टानां जैवनी - १

॥ॐ वक्रतुण्डाय नमः॥
महागणपतिं भक्त्या सर्वज्ञानप्रदायकम् ।
विघ्नविनाशकं नित्यं प्रणमामि मुहुर्मुहुः ॥

त एवं समाचरन्....
श्रीमान् थामस् आल्वा एडिसन् इत्याख्यः महान् सुप्रसिद्धश्च विज्ञानी बभूव । सः यस्मिन् गृहे न्यवसत् तस्य द्वारमतिविशिष्टमासीत् यस्योद्घाटने महान् श्रमः अपेक्षितः आसीत् । एडिसन् इति सुविख्यातः विज्ञानी कथमेतादृशं मौर्ख्यं समाचरत् इति सर्वोऽपि विस्मितः आसीत् । सुन्दरस्य विशिष्टस्य च गृहस्य अवैज्ञानिकं द्वारम् इति कथयन्तो हसितवन्त: जनाः । तथापि साक्षात् तस्मै कारणं प्रष्टुं न कस्याप्यासीद्धैर्यम् ।
कदाचित् एडिसन्महोदयस्य बन्धुः(यः बहुकृत्वः तद्गृहमागच्छत्) द्वारोद्घाटनसमस्यया सन्त्रस्तः तमस्मिन् विषये सधैर्यमप्राक्षीत् । प्रश्नं श्रुत्वा उच्चैः हसन् एडिसन् वर्योऽवादीत् – “अयि बन्धो ! इयमपि मदीया काचिद्रचना ।
“किम्? रचना वा? कोऽभिप्रायः भवतः वचनस्य? नाहमवगतवान् । कृपया विस्तरेण कथयतु ।“ इति सविस्मयमब्रवीत् ।
तदा तं द्वारं निकषा नयन् इत्थमाह एडिसन्वर्यः – “इदं द्वारं तथा निर्मितं अस्ति येन यदा कश्चित् मद्गृहस्य द्वारमुद्घाट्य मद्गृहं प्रविशति तदा तस्य द्वरोद्घाटनप्रयासेन मदीयगृहस्य दीर्घिकायां(Tank) पञचाशत् लीटर् परिमितं (कूपादाकृष्टम्) जलं स्वयमेव पूरितं भवति । अवगतं ननु ?

ऎडिसन्द्वारा कल्पितायाः अस्याः जलपूरणव्यवस्थायाः कौशलं वीक्ष्य तस्य धीशक्तिं प्रशंसन् बन्धुः निर्गतः ।

Wednesday, 25 February 2015

सूक्तयः - २


सूक्तयः
(संस्कृतार्थसहितम्)

एकमाशीविषो हन्ति शस्त्रेणैकश्च वध्यते ।
हन्ति विप्रः सराष्ट्राणि पुराण्यपि कोपितः ॥१॥
                                                                (महाभारतम्/आदिपर्वः/८१/२५)
अर्थः – क्रोधः किं किं न नाशयति । परन्तु क्रोधः परिणामः विविधः दृश्यते । तद्यथा यदा सर्पः कृद्धः भवति कश्चिदेकः म्रियते । यदा शास्त्रकोपः भवति तदापि एक एव हतो भवति । (शास्त्रविषये यदा अध्येता अवज्ञां प्रदर्शयति तदा शास्त्रस्य अंशान् सः विस्मरति येन सभादिषु सः अवमानितो भवति । विदुषः सभायाम् अपमानः मृत्युतुल्यः भवति ) । परन्तु यदा कश्चित् विप्रः(ब्राह्मणः) कृद्धः भवति तदा तस्य क्रोधः नगराणि राष्ट्राणि च समूलं विनाशयति ।
 एकमेव तु शूद्रस्य प्रभुः कर्म समादिशत् ।
 एतेषामेव वर्णानां शुश्रूषामनसूयया ॥२॥
                                                                     (मनुस्मृतिः-१/९१)
अर्थः – परमात्मा समाजप्रक्रियायाः सुष्ठु निर्वहणाय मनुष्येषु कार्यविभागं कृतवान् । तत्र शूद्रेभ्यः एकमेव कर्म समादिष्टं भगवता तद्धि ब्राह्मणशूद्रविशां श्रद्धया असूयां विना सेवा । (असूया नाम गुणेषु दोषाविष्करणम्) ।

एकवृक्षसमारूढा नानावर्णा विहङ्गमाः ।
 प्रभाते दिक्षु गच्छन्ति, तत्र का परिदेवना ॥३॥
                                                                                         (चाणक्यनीतिः-१०/१५)
अर्थः – यत्र महान् वृक्षः भवति तत्र वृक्षे बहवः पक्षिणः वसन्ति, आश्रयं वा प्राप्नुवन्ति । ते हि पक्षिणः रात्रौ आगत्य तस्य वृक्षस्य आश्रयं स्वीकुर्वन्ति । रात्रौ तत्र विश्रम्य प्रातः विविधेषु दिक्षु गच्छन्ति । तत्र शोकस्य न किञ्चित् कारणमस्ति । यतः अयं हि प्रकृतेः नियमः । तद्वदेव अस्मिन् संसाररूपवृक्षे बहवः आगत्य आश्रयं स्वीकुर्वन्ति, बन्धुत्वञ्च प्राप्नुवन्ति । काले समायते विविधेषु दिक्षु गच्छन्ति मरणं वा प्राप्नुवन्ति । यथोक्तं जातस्य हि ध्रुवो मृत्युः । अयं हि लोकस्य नियमः, अतस्तत्र शोको न कर्तव्यः ।

एकस्य कर्म संविक्ष्य करोत्यन्योऽपि गर्हितम् ।
गतानुगतिको लोको न लोकः पारमार्थिकः ॥४॥
                                                                                 (पञ्चतन्त्रम्-१/१७७)
अर्थः – लोकस्य कश्चन विचित्रस्वभावः अयम् अनुकरणरूपः । अनुकरणम् उत्तमं दुष्टं वा भवितुमर्हति । तत्र केचन दुष्टान् केचन साधून् अनुसरन्ति । कस्यचित् एकस्य दुष्कर्मणा प्राप्तं लाभं दृष्ट्वा अविचार्य तस्मिन् कर्मणि मनुष्यः आत्मानं प्रवर्तयति । यथा अन्धाः अन्धाननुसरन्ति तथैव बहवो हि अस्मिन् समाजे अविचार्य अन्याननुसरन्ति । परमार्थः कः? किं युक्तम् ? किञ्च अयुक्तम् इति नैव चिन्तयन्ति ।
एक एव हि वन्ध्यायाः शोको भवति मानसः ।
अप्रजास्मीति सन्तापो न ह्यन्यः पुत्र विद्यते ॥ ५॥
                                                        वा.रा.अयोध्याकाण्डम् २०/३७

अर्थः – अस्मिन् श्लोके कौसल्या रामं प्रति वदति – “ हे वत्स ! वन्ध्यायाः मनसि मम अपत्यं नास्ति इत्येकमेव दुःखं न कोऽप्यन्यः । (वन्ध्या – अपत्य(पुत्रः/पुत्री)रहिता स्त्री) ।

Saturday, 21 February 2015

सूक्तयः - १

सूक्तयः    
(संस्कृतार्थसहितम्)

 ऋषियज्ञं देवयज्ञं भूतयज्ञं च सर्वदा ।
     नृयज्ञं पितृयज्ञं च यथाशक्ति न हापयेत् ॥१॥

अर्थः – द्विजन्मनाम्(ब्राहमणक्षत्रियविशां) इदं कर्तव्यं भवति यत्ते नित्यं ऋषियज्ञं, देवयज्ञं, भूतयज्ञं, नृयज्ञं पितृयज्ञम् इत्येतान् पञ्च महायज्ञान् कुर्युः ।यथाशक्ति कर्मणां त्यागो यथा न स्यात् तथा यत्नं च कुर्युः ।
ऋषिषूत्क्रामत्सु मनुष्या देवानब्रुवन्
को न ऋषिर्भविष्यतीति ?
ते मनुष्येभ्यः तर्कमृषिमप्रयच्छन् ॥२॥
अर्थः – यदा जगति तत्त्ववेत्तारो ऋषयः अल्पा अभूवन् तदा मानवा विदुषः पृष्टवन्तः-“अयि विद्वांसः! एतेषां अधुना विद्यमानानाम् ऋषीणामनन्तरं को वा अस्माकं मर्गदर्शनं करिष्यति ?” प्रश्नं श्रुत्वा विद्वांसः अब्रुवन् – “ऋषीणामभावे तर्काः(युक्तयः) एव मनुष्याणां मर्गदर्शनं करिष्यन्ति ।

एकं मनुष्यमप्येकं गुणैरपि समन्वितम् ।
शक्यं द्विषन्तो मन्यन्ते वायुर्द्रुममिवैकजम् ॥३॥
                                                                                                                                                                                (विदुरनीतिः ४-अध्यायः)
अर्थः – बहुषु गुणेषु विद्यमानेऽपि एकः अद्वितीयः मानवः शत्रुभिर्जितो भवति, तद्यथा एकः महान् वृक्षः सुदृढमूलवानपि वायुना उत्पाटितो भवति ।

एकदेशं तु वेदस्य वेदाङ्गान्यपि वा पुनः ।
योऽध्यापयति वृत्त्यर्थमुपाध्यायः स उच्यते ॥४॥
                                                                           (मनुस्मृतिः २/१४६)
अर्थः – यः आजीविकार्थं वेदस्य कञ्चिद्भागम्, वेदाङ्गं वा पाठयति सः उपाध्यायः इत्युच्यते ।

एकपादो भूयो द्विपादो विचक्रमे
द्विपात्त्रिपादमभ्येति पश्चात् ।
चतुष्पादेति द्विपदामभिस्वरे
सम्पश्यन्पङ्क्तीरुपतिष्ठमानः ॥५॥
                                                                 (ऋग्वेदः- १०/११७/८)
अर्थः – समाजे मनुष्यस्य एते स्वभावाः बहुधा अवलोक्यन्ते । तद्यथा - एकांशयुक्तः मनुष्यः, तस्य अंशस्य द्विगुणं प्राप्तुम् इच्छति । द्विगुणं यः प्राप्नोति सः त्रिगुणं वाञ्छति । त्रिगुणं यः प्राप्नोति सः ततोऽप्यधिकं चतुर्गुणं वाञ्छति । परन्तु यः चतुर्गुणं प्राप्तवान् (अर्थात् यः भावयति अहं सर्वं प्राप्तवान् अस्मि, अहं तृप्तः अस्मि) सः पूर्वोक्तपङ्क्तीः पश्यन् तत्र विद्यमानान् सर्वानपि उन्नेतुं प्रयतते ।


Thursday, 15 January 2015

पादस्पर्शस्य वैज्ञानिकं प्रयोजनम्-

              इयमस्माकं काचिद्भारतीयपरम्परा यन्मनुष्य: ज्येष्ठस्य पादस्पर्शं विधाय आशिष: प्राप्नोति इति । एषा न केवलमेका परम्परा अपि तु विज्ञानं यद्धि अस्माकं शरीरेण मनसा विचारैश्च सम्बध्नाति । तथाहि -
             नमनं कृत्वा पादस्पर्शनक्रियया पृष्ठास्थिनो व्यायामो भवति । नमनक्रियया मस्तिष्के रक्तप्रवाहो वर्धते यश्च स्वास्थ्याय नेत्राभ्याञ्च लाभप्रदो भवति ।

Monday, 1 December 2014

पदामृतम्

॥ॐ वक्रतुण्डाय नमः॥
स्मृधातोः यङ्लुकि किं रूपम् ?
        स्मृधातोः यङ्लुग्रूपविषये महान् भ्रमः दृश्यते संस्कृतप्रपञ्चे । सास्मरीति इति प्रयोगो बहुधा श्रूयते । परन्तु अयं प्रयोगः असाधुः । कथम् इति ज्ञातुं प्रक्रियामवलोकयामः । तथाहि 
        पुनः पुनः अतिशयेन वा स्मरति इत्यर्थे स्मृधातोः धातोरेकाचो हलादेः क्रियासमभिहारे यङ् (३/१/२२) इति सूत्रेण यङ्प्रत्यये स्मृ + यङ् इति स्थिते यङोऽचि च इति सूत्रेण यङो लुकि स्मृ इत्यवशिष्यते । लुप्तः प्रत्ययः प्रत्ययलक्षणेनानीय सनाद्यन्ता धातवः(३/१/३२) इति सूत्रेण धातुसंज्ञा उच्यते । ततः सन्यङोः(६/१/१०) इति सूत्रेण धातोः द्वित्वे स्मृ स्मृ इति जाते प्रथमस्य स्मृ इत्यस्य पूर्वोऽभ्यासः(६/१/५) इति सूत्रेण अभ्याससंज्ञायाम् उरत् (७/४/६७) इति सूत्रेण ऋकारस्य स्थाने अकारादेशे उरण् रपरः (१/१/५१) इति रपरत्वे स्मर् स्मृ इत्यवस्थायां हलादिः शेषः (७/४/६१) इत्यनेन आदेर्हलः शेषे स स्मृ इति स्थितिः । अस्याञ्चवस्थायाम् ऋतश्च(७/४/९३) इति सूत्रं प्रवर्तते । ऋकारान्तधातूनां विषये विशिष्टं सूत्रमिदं पठ्यते। सूत्रार्थः इत्थम् ऋदन्ताद्धातोः अभ्यासस्य रुक्, रिक्, रीक् एते आगमाः स्युः यङ्लुकि । अत्र त्रिष्वपि आगमेषु ककरस्यानुबन्धलोपः, रुक् इत्यत्र उकारः उच्चरणार्थः । एवञ्च आगमेषु कृतेषु सर्स्मृ,सरिस्मृ,सरीस्मृ इति त्रयः उपलभ्यन्ते । ततः लटि तिपि शपि सर्स्मृ + अ ति/ सरिस्मृ + अ ति/ सरीस्मृ + अ ति इति जाते अदिप्रभृतिभ्यः शपः(२/४/७२) इति सूत्रेण शपः लुकि सर्स्मृ + ति/ सरिस्मृ + ति/ सरीस्मृ + ति इति जाते यङो वा(७/३/९५) इति सूत्रेण तिपः विकल्पेन ईडागमे सर्स्मृ + ई + ति/ सरिस्मृ + ई + ति/ सरीस्मृ + ई + ति इत्यवस्थायां सार्वधातुकार्धधातुकयोः(७/३/८५) इति सूत्रेण ऋकारस्य गुणे रपरत्वे च सर्स्मरीति/सरिस्मरीति/सरीस्मरीति इति रूपाणि सिद्ध्यन्ति ।
        ईडागमाभावे सर्स्मर्ति/सरिस्मर्ति/सरीस्मर्ति इति रूपाणि भवन्ति । इत्थं स्मृधातोः यङ्लुकि प्रथमपुरुषैकवचने षड्रूपाणि 
१.सर्स्मरीति २.सरिस्मरीति ३.सरीस्मरीति ४. सर्स्मर्ति ५.सरिस्मर्ति
६. सरीस्मर्ति

एवमन्येषु ऋकारान्तधातुषु अवगन्तव्यम् ।