॥ॐ वक्रतुण्डाय नमः॥
महागणपतिं भक्त्या सर्वज्ञानप्रदायकम् ।
विघ्नविनाशकं नित्यं प्रणमामि मुहुर्मुहुः ॥
त एवं
समाचरन्....
- कविराजः भूषणः
शिवाजीमहारजस्य
काले भूषणनामकः प्रसिद्धः कविरभूत् । तस्य मनसि राज्ञः विषये महती श्रद्धा भक्तिश्च
आसीत् । अत एव सः महारजमधिकृत्य बहूनि सुन्दराणि आह्लादकानि च काव्यानि रचयामास ।
तस्य जीवनस्य कश्चन प्रसङ्गः अत्रोल्लिख्यते ।
भूषणः
स्वबन्धोः कस्यचित् गृहे न्यवसत् । परन्तु कालान्तरे केनचित् कारणेन सः अन्यत्र
गन्तुं निश्चितवान् । “यवनराज्ये न वस्तव्यम्” इति तस्य प्रतिज्ञा (तस्मिन् काले
भारतस्य बहुषु भागेषु मुगलराज्यमासीत्) । अतः सः देहल्याः प्रस्थाय
कमाऊनपर्वतस्थस्य हिन्दुराजस्य आश्रयं स्व्यकार्षीत् । अल्पे एव काले सः
स्वकाव्यरचनाकौशलेन राज्ञः मनः अमूमुदत् ।
कदाचित्
सः राजा भूषणस्य काव्यकौशलेन प्रसन्नः तस्मै लक्षरूप्यकाणां पुरस्कारं दत्त्वा
सगर्वमुवाच – “ हे भूषण ! मादृशो दाता अस्यां पृथिव्यां न भूतो न भविष्यति । तस्मात्तुभ्यं
न कश्चिदन्यः एवं पुरस्कारं प्रदास्यति” इति ।
भूषणाय
राज्ञः अहङ्कारपूर्णानि वचांसि नारोचिषन्त । सः अविलम्बमवादीत् – “राजन् ! त्वया
यदुच्यते तन्नाहमङ्गीकरोमि । तव सदृशाः सहस्राधिकाः दानशूराः अमुष्यां वसुधायां
विद्यन्ते । परन्तु गर्वपूर्णवचोभिः पुरस्कृतानि लक्षरूप्यकाणि तुच्छानि इति
मन्वानः मादृशः कविः न कदाचित् अद्यावधि दृष्टः स्यात्” ।
एवमुक्त्वा
लक्षरूप्यकं तद्दानं तत्रैव स्थापयित्वा भूषणः सभायाः आशु निरगमत् ।
भूषणः
विशिष्टः, यः लक्षरूप्यकाणां महद्धनं पर्यत्याक्षीत्, तादृशाः विरला एव
अस्यामवन्याम् ।
कवीनां नैतिकतानुष्ठानपरम्परा सुष्ठूदाहरणेन प्रदर्शिता ॥ धन्यवादाः॥
ReplyDelete