Saturday, 7 March 2015

विशिष्टानां जैवनी - ४

॥ॐ वक्रतुण्डाय नमः॥
महागणपतिं भक्त्या सर्वज्ञानप्रदायकम् ।
विघ्नविनाशकं नित्यं प्रणमामि मुहुर्मुहुः ॥

त एवं समाचरन्....
*   भक्तः तुकारामः
तुकाराममहाराजः पण्ढरपुरस्य विठ्ठलदेवस्य महान् भक्तः । कदाचित् तस्य प्रसृतां कीर्तिं श्रुत्वा काचित् वनिता स्वबालं तत्समीपम् आनैषीत्, तस्मै अवादीच्च – “महाराज ! अयं मे पुत्रः बहु गुडं भुङ्क्ते । गुडस्य अत्यधिकसेवनेन आरोग्यं नङ्क्ष्यति इति बहुधा बोधितेऽपि नायं कस्यापि वचनं श्रुणोति । कृपया एनं किञ्चिद्बोधयतु, येनास्य अयं दुरभ्यासः त्यक्तो भवेत्” ।
तस्याः वचनानि सावधानं श्रुत्वा तुकारामवर्यः आह- “अम्ब ! माधिकं चिन्तय । पञ्चदशभ्यः दिनेभ्यः अनन्तरम् आगत्य मां मिलतम् युवाम्” ।
एतच्छ्रुत्वा स्त्रिया चिन्तितं यत् एषु पञ्चदशसु दिनेषु तुकारामवर्यः किञ्चिद्विशिष्टम् औषधं निर्माय दद्यात्, यस्य सेवनेन मम पुत्रस्य गुडसेवनाभ्यासः त्यक्तो भविष्यति । सा सन्तुष्टमनसा पुत्रेण सह गृहमगच्छत् ।
ततः पञ्चदशभ्यः दिनेभ्यः अनन्तरं सा पुनः स्वपुत्रेण सह तुकारामस्य मेलनार्थं समागात् ।
तुकारामवर्यः तं बालं पश्यन् स्मयमानः (स्मयः = मन्दहासः)- “अयि बाल ! अत्यधिकस्य गुडस्य सेवनं स्वास्थ्याय न उत्तमम् । इत ऊर्ध्वं अल्प्रमाणेनैव गुडस्य सेवनं कुरुष्व” इत्यबूबुधत् ।
तुकारामवर्यस्य उपदेशं श्रुतवत्याः तस्याः महिलायाः मनसि खेदः उत्पन्नः । सा खेदेनैव तम् अप्राक्षीत् – “महाराज ! इदमेव यदि भवता वक्तव्यमासीत्, तर्हि पञ्चदशभ्यः दिनेभ्यः प्रागपि भवान् वक्तुम् अशक्ष्यत् खलु ? कुत अद्यावधि प्रत्यैचिक्षत् ?(प्रतीक्षां कारितवान्) ।
तस्याः सन्तापवचनानि श्रुत्वा शान्तभावेन हसन् – “ मातः ! पञ्चदशभ्यः दिनेभ्यः प्राग् एतदुपदेष्टुम्, यद् अतिशयस्य गुडस्य सेवनम् आरोग्याय हानिकारकम् इति, मम अधिकारः क्व(कुत्र) आसीत् ? सर्वथा नासीदेव । कुत इत्युक्तौ स्वयम् अहं तस्मिन् समये अत्यधिकं गुडमखादम् । तस्यामवस्थायां त्वत्पुत्राय  ‘गुडसेवनं मा कर्षीः’ इति कथं वा ब्रूयाम् । तदर्थमहम् एषु पञ्चदशसु दिनेषु गुडसेवनं सर्वथा पर्यत्याक्षम् (परित्यक्तवान्), येनाद्य तस्मै बोधयितुमधिकारं प्राप्तवान्” इत्यवोचत् ।
स्वयं करोतु कृत्वा प्रदर्शयतु उपदिशतु च इत्यमुम् अंशं समबूबुधत् प्रसङ्गेऽस्मिन् भक्तः तुकारामः ।


No comments:

Post a Comment