Saturday, 14 March 2015

पदामृतम् (मुनिशब्दविचारः)

मुनिशब्दविचारः
मन्यन्ते = वेदशास्त्रादितत्त्वम् अवगच्छन्ति ये ते मुनयः = साधकबाधक-प्रमाणोपन्यासरूपयुक्तिभिः श्रुत्याद्यर्थावधारणरूपमननशीलाः ।

मन् धातोः मनोरुच्चोपधायाः (उ. ४/१४२) इत्युणादिसूत्रेण कर्तरि इन्प्रत्यये उपधाभूतस्य अकारस्य उकारादेशे च मुनिः इति रूपं सिद्ध्यति ।

तदुक्तं विविधेषु ग्रन्थेषु –
दुःखेष्वनुद्विग्नमनाः सुखेषु विगतस्पृहः ।
वीतरागभयक्रोधः स्थितधीर्मुनिरुच्यते ॥
(भगवद्गीता २-५६)
शाके पत्रे फले मूले वनवासे रतिः सदा ।
नियतोऽहरहः श्राद्धे स विप्रो मुनिरुच्यते ॥
(अत्रिस्मृतिः ३७२)
मौनान्न मुनिर्भवति नारण्यवसनान्मुनिः ।
स्वलक्षणं तु यो वेद स मुनिः श्रेष्ठ उच्यते ॥
 ( महाभारतम् उ.प.४३/६०)
अन्तर्बहिश्च मननात्कुरुते कर्म नित्यशः ।
मौनी शश्वद्वदेत्काले यो वै स मुनिरुच्यते ॥
(गणेशख ३.३५.३१)
आकृष्टफलमूलादी वनवासरतिस्सदा ।
कुरुतेऽहरहः श्राद्धमृषिर्विप्र स उच्यते ॥
 ( चाणक्यनीतिः ११.११)
वेदानुवचनेनापि यज्ञेन सकलेन च ।
दानेन तपसा देवान् तथैवानशनेन च ।
वेत्तुमिच्छति यो विद्वान् स मुनिर्नेतरो जनः ॥
(स्कन्दपुराणम्)
तमेतं वेदानुवचनेन ब्रह्मणा विविदिषन्ति यज्ञेन दानेन तपसाऽनाशकत्वेनैतमेव विदित्वा मुनिर्भवति ।

 (बृ.उ. ४/४/२२)

No comments:

Post a Comment