मुनिशब्दविचारः
मन्यन्ते = वेदशास्त्रादितत्त्वम् अवगच्छन्ति ये ते मुनयः =
साधकबाधक-प्रमाणोपन्यासरूपयुक्तिभिः श्रुत्याद्यर्थावधारणरूपमननशीलाः ।
मन् धातोः मनोरुच्चोपधायाः (उ. ४/१४२) इत्युणादिसूत्रेण कर्तरि इन्प्रत्यये उपधाभूतस्य अकारस्य उकारादेशे च मुनिः
इति रूपं सिद्ध्यति ।
तदुक्तं विविधेषु ग्रन्थेषु –
दुःखेष्वनुद्विग्नमनाः सुखेषु विगतस्पृहः ।
वीतरागभयक्रोधः स्थितधीर्मुनिरुच्यते ॥
(भगवद्गीता
२-५६)
शाके पत्रे फले मूले वनवासे रतिः सदा ।
नियतोऽहरहः श्राद्धे स विप्रो मुनिरुच्यते ॥
(अत्रिस्मृतिः
३७२)
मौनान्न मुनिर्भवति नारण्यवसनान्मुनिः ।
स्वलक्षणं तु यो वेद स मुनिः श्रेष्ठ उच्यते ॥
( महाभारतम् उ.प.४३/६०)
अन्तर्बहिश्च मननात्कुरुते कर्म नित्यशः ।
मौनी शश्वद्वदेत्काले यो वै स मुनिरुच्यते ॥
(गणेशख
३.३५.३१)
आकृष्टफलमूलादी वनवासरतिस्सदा ।
कुरुतेऽहरहः श्राद्धमृषिर्विप्र स उच्यते ॥
( चाणक्यनीतिः ११.११)
वेदानुवचनेनापि यज्ञेन सकलेन च ।
दानेन तपसा देवान् तथैवानशनेन च ।
वेत्तुमिच्छति यो विद्वान् स मुनिर्नेतरो जनः ॥
(स्कन्दपुराणम्)
तमेतं वेदानुवचनेन ब्रह्मणा विविदिषन्ति यज्ञेन दानेन
तपसाऽनाशकत्वेनैतमेव विदित्वा मुनिर्भवति ।
(बृ.उ. ४/४/२२)
No comments:
Post a Comment