Saturday, 7 March 2015

विशिष्टानां जैवनी - ३

॥ॐ वक्रतुण्डाय नमः॥
महागणपतिं भक्त्या सर्वज्ञानप्रदायकम् ।
विघ्नविनाशकं नित्यं प्रणमामि मुहुर्मुहुः ॥

त एवं समाचरन्....
  •    नेपोलियन् बोनपार्ट्

नेपोलियन् बोनपार्ट् इत्याख्यः कश्चन महान् राजा बभूव । तस्य बाल्ये तस्य शुश्रूषार्थं काचित् दासी नियुक्ता आसीत् । कमिला लारी इति नाम्न्याः तस्याः नेपोलियन्वर्ये महती प्रीतिरासीत् । तं पुत्रवत् पर्यपालयच्च । शुश्रूषायां न कञ्चनलोपमकार्षीत् सा ।
पञ्चत्रिंशद्वर्षानन्तरं नेपोलियन्वर्यः फ्रांसदेशस्य राजत्वं प्रापत्, तदा सः स्वकीयं राज्याभिषेकं कर्तुं निश्चिचाय । एनां वार्तां श्रुतवन्तस्तत्प्रजाः अतीव हर्षेण पेरिसनगरम् सम्यगलमकार्षुः । सर्वत्रापि आनन्दः प्रसृतः आसीत् ।
इयं हि वार्ता सर्वत्र फ्रांसदेशे प्रसृता अभूत् । कर्णाकर्णिकया इमां वार्तां कमिला लारी अपि अश्रौषीत् । सा उद्विग्ना जाता । सा नेपोलियन्वर्यस्य मेलनं निश्चिकाय । परन्तु झटिति तस्याः मनसि “नेपोलियन् इदानीं ज्येष्ठः संवृत्तः, एकं महान्तं देशमेव शास्ति सः । किं मादृशां दरिद्राम् अल्पज्ञां दासीं सः परिचिनुयात्?” इति सन्देहः समुत्पन्नः । गन्तव्यं न वा इति चिन्तयितुम् आरब्धवति ।
अन्ततो गत्वा यद्भवितव्यं तद्भवतु, गमिष्याम्येव पेरिस्नगरम् इति निश्चित्य आत्मप्रियं नेपोलियन्वर्यं मेलितुं पेरिस्नगरं समाययौ । नेपोलियन्वर्यस्य सङ्केतमन्विष्यन् राजप्रसादं प्रापत्, तत्र दौवारिकान् “अहं महाराजं दिदृक्षामि, कृपया अवकाशं कल्पयन्तु” इति प्रार्थयामास । परन्तु विनष्टवेशां तां वीक्ष्य इयं काचिदुन्मत्ता इति भावयित्वा तां प्रताडयन् ।
सहसा काकतालीयेन स्वयं नेपोलीयन्वर्यस्य यानं तस्मिन् पथि समागात् । तत्रोपविष्टः नेपोलीयन्वर्यः कामिलालारीम् अद्राक्षीत् । आशु यानादवतीर्य, तामुपसर्प्य समालिङ्गत् ।
अग्रिमे दिने उत्सवावसरे सभायां तां दासीं वैभवेन सत्कृत्य राज्ञ्याः जोसेफायिन्वर्यायाः कण्ठे विद्यमानां अमूल्यां रत्नमालाम् उपायनीकृतवान् ।
अनेन कर्मणा, विशिष्टाः कदापि प्राप्तां सेवां न विस्मरन्ति इति समाजाय अबूबुधत् नेपोलियन्वर्यः ।


No comments:

Post a Comment