॥ ॐ वक्रतुण्डाय नमः॥
अजीर्णरोगः
अमुष्मिन् युगे मानवः सदा केनचित्
रोगेण पीडितः दृश्यते । तत्रापि प्राधान्येन अजीर्णरोगः । अयं हि रोगः बहूनां
रोगाणां मूलमिति वैद्याः आमनन्ति । तदुक्तं योगरत्नाकरे –
अविपक्वोऽग्निमान्द्येन यो
रसः स निगद्यते ।
रोगाणां प्रथमो हेतुः
सर्वेषामामसंज्ञया ॥
अर्थः – मन्दाग्निवशात् आमाशये शिष्टः अजीर्णः यः रसः, तस्य आम इति संज्ञा । स एव
रोगस्यादिकारणं भवति ।
रोगस्य उपशमनम् अथवा
रोगस्यानागमनचिन्तनं वा तस्य कारणं ज्ञात्वैव कर्तुं शक्यते ।
रोगकष्टानुभवापेक्षया तदनागमनमेव वरम् । तथा चाऽस्ति आङ्ग्ले काचिदभियुक्तोक्तिः –
Prevention is better than cure. कानि पुनः अजीर्णरोगस्य कारणानि इति जिज्ञासामुच्यते –
अत्यम्बुपानाद्विषमाशनाच्च
सन्धारणात्स्वप्नविपर्ययाच्च ।
कालेऽपि सात्म्यं लघु चापि
भुक्तमन्नं न पाकं भजते नरस्य ॥ (योगरत्नाकरः)
अर्थः –
·
अपेक्षितपरिमाणादधिकस्य जलस्य
पानात्;
· विषमभोजनात् (अपेक्षितादधिकं न्यूनं वा);
· अनियमितभोजनात् (समयात् पूर्वम् अनन्तरं वा );
·
मलमूत्रादिवेगानां
धारणात्; निद्रायाः अभावात्
लघ्वाहारोऽपि जीर्णतां न प्राप्नोति ।
पुनश्च –
ईर्ष्याभयक्रोधपरिप्लुतेन
लुब्धेन शुग्दैन्यनिपीडितेन ।
प्रद्वेषयुक्तेन च
सेव्यमानमन्नं न सम्यक्पचते नरस्य ॥ (योगरत्नाकरः)
अर्थः –
ईर्ष्या
(अक्षमा), भयम्, क्रोधः, लोभः, शोकः, दैन्यम्, द्वेषः, इत्येतैः युक्तः सन् यो
भुङ्क्ते स अजीर्णरोगेण पीडितो भवति ।
पुनरपि –
मात्रया चाभ्यवहृतं पथ्यं
चान्नं न जीर्यति ।
चिन्ताशोकभयक्रोधदुःखशय्याप्रजागरैः
॥ (योगरत्नाकरः)
अर्थः –
चिन्ता,
शॊकः, भयम्, क्रोधः, दुःखम्, निद्राधिक्यम्, निद्राभावः इत्येतैः मात्रया भुक्तं
पथ्यमपि अन्नं न जीर्यति ।
एतानि प्रमुखानि कारणानि विदित्वा यो
मनुष्यः भोजनं सेवते नूनं स सदा रोगरहितो भवति ।