ॐ वक्रतुण्डाय नमः
अश्वत्थामञ्छब्दविचारः
अश्वस्य इव स्थाम = बलम् अस्य इति अश्वत्थामन् । अस्य शब्दस्य प्रथमैकवचने अश्वत्थामा इति रूपम् । अत्र सकारस्य तकारादेशः पृषोदरादित्वात् इति वक्तव्यम् । पृषोदरादीनि यथोपदिष्टम् (पा.सू.६/३/१०९) इत्यस्मिन् सूत्रे शिष्टप्रयुक्तानां शब्दानां सङ्ग्रहः क्रियते । शिष्टप्रयुक्ताः शब्दाः तथैव प्रयोक्तव्याः यथा तैः प्रयुक्ताः । अयं हि आकृतिगणः । के पुनः शिष्टाः? इति जिज्ञासायां तस्मिन्नेव सूत्रे भगवान् पतञ्जलिराह – “एतस्मिन्नार्यावर्ते आर्यनिवासे ये ब्राह्मणाः कुम्भीधान्याः अलोलुपाः अगृह्यमाणकारणाः किञ्चिदन्तरेण कस्याश्चिद्विद्यायाः पारं गतास्तत्र भवन्तः शिष्टाः । [ कुम्भीधान्या – कुम्भ्यामेव येषां धान्यम्; अगृह्यमाणकारणाः – दृष्टं कारणमन्तरेणैव(कारणं विनैव । दृष्टं कारणं लाभपूजादि ।) सदाचारानुवर्तिन इत्यर्थः । किञ्चिदन्तरेण इति – विनैवाभियोगादिना (अभियोगः – गुरूपदेशः । आदिना अभ्यासादिः) सर्वविद्यापारगाः ते हि साधुत्वपरिज्ञाने प्रमाणम् इति कैयटः]
अश्वत्थाम इत्ययं शब्दः पुंसि विद्यते । अश्वत्थामा द्रोणाचार्यस्य पुत्रः, अस्य माता कृपाचार्यस्य स्वसा कृपी आसीत् । यदा अस्य जन्म अभूत् तदा अयं अश्व इव उच्चैः आक्रोषं कृतवान् तस्मादस्य नाम अश्वत्थामा इत्यभूत् । तदुक्तं महाभारतस्य आदिपर्वणि –
स जातमात्रो व्यनदद्यथैवोच्चैःश्रवा हयः ।
तच्छ्रुत्वान्तर्हितं भूतमन्तरीक्षस्थमब्रवीत् ॥
अश्वस्येवास्य यत् स्थाम नदशः प्रदिशो गतम् ।
अश्वत्थामैव बालोऽयं तस्मान्नाम्ना भविष्यति ॥
(महाभारतम् आदिपर्व १४०-४९)
अश्वत्थामा इत्ययं कौरवसेनायामतीवपराक्रमी योद्धा आसीत् ।
Tuesday, 28 July 2015
पदामृतम्
Friday, 20 March 2015
स्वास्थ्यसुधा
॥ ॐ वक्रतुण्डाय नमः॥
अजीर्णरोगः
अमुष्मिन् युगे मानवः सदा केनचित्
रोगेण पीडितः दृश्यते । तत्रापि प्राधान्येन अजीर्णरोगः । अयं हि रोगः बहूनां
रोगाणां मूलमिति वैद्याः आमनन्ति । तदुक्तं योगरत्नाकरे –
अविपक्वोऽग्निमान्द्येन यो
रसः स निगद्यते ।
रोगाणां प्रथमो हेतुः
सर्वेषामामसंज्ञया ॥
अर्थः – मन्दाग्निवशात् आमाशये शिष्टः अजीर्णः यः रसः, तस्य आम इति संज्ञा । स एव
रोगस्यादिकारणं भवति ।
रोगस्य उपशमनम् अथवा
रोगस्यानागमनचिन्तनं वा तस्य कारणं ज्ञात्वैव कर्तुं शक्यते ।
रोगकष्टानुभवापेक्षया तदनागमनमेव वरम् । तथा चाऽस्ति आङ्ग्ले काचिदभियुक्तोक्तिः –
Prevention is better than cure. कानि पुनः अजीर्णरोगस्य कारणानि इति जिज्ञासामुच्यते –
अत्यम्बुपानाद्विषमाशनाच्च
सन्धारणात्स्वप्नविपर्ययाच्च ।
कालेऽपि सात्म्यं लघु चापि
भुक्तमन्नं न पाकं भजते नरस्य ॥ (योगरत्नाकरः)
अर्थः –
·
अपेक्षितपरिमाणादधिकस्य जलस्य
पानात्;
· विषमभोजनात् (अपेक्षितादधिकं न्यूनं वा);
· अनियमितभोजनात् (समयात् पूर्वम् अनन्तरं वा );
·
मलमूत्रादिवेगानां
धारणात्; निद्रायाः अभावात्
लघ्वाहारोऽपि जीर्णतां न प्राप्नोति ।
पुनश्च –
ईर्ष्याभयक्रोधपरिप्लुतेन
लुब्धेन शुग्दैन्यनिपीडितेन ।
प्रद्वेषयुक्तेन च
सेव्यमानमन्नं न सम्यक्पचते नरस्य ॥ (योगरत्नाकरः)
अर्थः –
ईर्ष्या
(अक्षमा), भयम्, क्रोधः, लोभः, शोकः, दैन्यम्, द्वेषः, इत्येतैः युक्तः सन् यो
भुङ्क्ते स अजीर्णरोगेण पीडितो भवति ।
पुनरपि –
मात्रया चाभ्यवहृतं पथ्यं
चान्नं न जीर्यति ।
चिन्ताशोकभयक्रोधदुःखशय्याप्रजागरैः
॥ (योगरत्नाकरः)
अर्थः –
चिन्ता,
शॊकः, भयम्, क्रोधः, दुःखम्, निद्राधिक्यम्, निद्राभावः इत्येतैः मात्रया भुक्तं
पथ्यमपि अन्नं न जीर्यति ।
एतानि प्रमुखानि कारणानि विदित्वा यो
मनुष्यः भोजनं सेवते नूनं स सदा रोगरहितो भवति ।
Saturday, 14 March 2015
पदामृतम् (मुनिशब्दविचारः)
मुनिशब्दविचारः
मन्यन्ते = वेदशास्त्रादितत्त्वम् अवगच्छन्ति ये ते मुनयः =
साधकबाधक-प्रमाणोपन्यासरूपयुक्तिभिः श्रुत्याद्यर्थावधारणरूपमननशीलाः ।
मन् धातोः मनोरुच्चोपधायाः (उ. ४/१४२) इत्युणादिसूत्रेण कर्तरि इन्प्रत्यये उपधाभूतस्य अकारस्य उकारादेशे च मुनिः
इति रूपं सिद्ध्यति ।
तदुक्तं विविधेषु ग्रन्थेषु –
दुःखेष्वनुद्विग्नमनाः सुखेषु विगतस्पृहः ।
वीतरागभयक्रोधः स्थितधीर्मुनिरुच्यते ॥
(भगवद्गीता
२-५६)
शाके पत्रे फले मूले वनवासे रतिः सदा ।
नियतोऽहरहः श्राद्धे स विप्रो मुनिरुच्यते ॥
(अत्रिस्मृतिः
३७२)
मौनान्न मुनिर्भवति नारण्यवसनान्मुनिः ।
स्वलक्षणं तु यो वेद स मुनिः श्रेष्ठ उच्यते ॥
( महाभारतम् उ.प.४३/६०)
अन्तर्बहिश्च मननात्कुरुते कर्म नित्यशः ।
मौनी शश्वद्वदेत्काले यो वै स मुनिरुच्यते ॥
(गणेशख
३.३५.३१)
आकृष्टफलमूलादी वनवासरतिस्सदा ।
कुरुतेऽहरहः श्राद्धमृषिर्विप्र स उच्यते ॥
( चाणक्यनीतिः ११.११)
वेदानुवचनेनापि यज्ञेन सकलेन च ।
दानेन तपसा देवान् तथैवानशनेन च ।
वेत्तुमिच्छति यो विद्वान् स मुनिर्नेतरो जनः ॥
(स्कन्दपुराणम्)
तमेतं वेदानुवचनेन ब्रह्मणा विविदिषन्ति यज्ञेन दानेन
तपसाऽनाशकत्वेनैतमेव विदित्वा मुनिर्भवति ।
(बृ.उ. ४/४/२२)
Saturday, 7 March 2015
विशिष्टानां जैवनी - ४
॥ॐ
वक्रतुण्डाय नमः॥
महागणपतिं भक्त्या सर्वज्ञानप्रदायकम् ।
विघ्नविनाशकं नित्यं प्रणमामि मुहुर्मुहुः ॥
त
एवं समाचरन्....
तुकाराममहाराजः
पण्ढरपुरस्य विठ्ठलदेवस्य महान् भक्तः । कदाचित् तस्य प्रसृतां कीर्तिं श्रुत्वा
काचित् वनिता स्वबालं तत्समीपम् आनैषीत्, तस्मै अवादीच्च – “महाराज ! अयं मे
पुत्रः बहु गुडं भुङ्क्ते । गुडस्य अत्यधिकसेवनेन आरोग्यं नङ्क्ष्यति इति बहुधा
बोधितेऽपि नायं कस्यापि वचनं श्रुणोति । कृपया एनं किञ्चिद्बोधयतु, येनास्य अयं
दुरभ्यासः त्यक्तो भवेत्” ।
तस्याः
वचनानि सावधानं श्रुत्वा तुकारामवर्यः आह- “अम्ब ! माधिकं चिन्तय । पञ्चदशभ्यः
दिनेभ्यः अनन्तरम् आगत्य मां मिलतम् युवाम्” ।
एतच्छ्रुत्वा
स्त्रिया चिन्तितं यत् एषु पञ्चदशसु दिनेषु तुकारामवर्यः किञ्चिद्विशिष्टम् औषधं
निर्माय दद्यात्, यस्य सेवनेन मम पुत्रस्य गुडसेवनाभ्यासः त्यक्तो भविष्यति । सा
सन्तुष्टमनसा पुत्रेण सह गृहमगच्छत् ।
ततः
पञ्चदशभ्यः दिनेभ्यः अनन्तरं सा पुनः स्वपुत्रेण सह तुकारामस्य मेलनार्थं समागात्
।
तुकारामवर्यः
तं बालं पश्यन् स्मयमानः (स्मयः = मन्दहासः)- “अयि बाल ! अत्यधिकस्य गुडस्य सेवनं
स्वास्थ्याय न उत्तमम् । इत ऊर्ध्वं अल्प्रमाणेनैव गुडस्य सेवनं कुरुष्व”
इत्यबूबुधत् ।
तुकारामवर्यस्य
उपदेशं श्रुतवत्याः तस्याः महिलायाः मनसि खेदः उत्पन्नः । सा खेदेनैव तम्
अप्राक्षीत् – “महाराज ! इदमेव यदि भवता वक्तव्यमासीत्, तर्हि पञ्चदशभ्यः दिनेभ्यः
प्रागपि भवान् वक्तुम् अशक्ष्यत् खलु ? कुत अद्यावधि प्रत्यैचिक्षत् ?(प्रतीक्षां
कारितवान्) ।
तस्याः
सन्तापवचनानि श्रुत्वा शान्तभावेन हसन् – “ मातः ! पञ्चदशभ्यः दिनेभ्यः प्राग्
एतदुपदेष्टुम्, यद् अतिशयस्य गुडस्य सेवनम् आरोग्याय हानिकारकम् इति, मम अधिकारः
क्व(कुत्र) आसीत् ? सर्वथा नासीदेव । कुत इत्युक्तौ स्वयम् अहं तस्मिन् समये
अत्यधिकं गुडमखादम् । तस्यामवस्थायां त्वत्पुत्राय ‘गुडसेवनं मा कर्षीः’ इति कथं वा ब्रूयाम् ।
तदर्थमहम् एषु पञ्चदशसु दिनेषु गुडसेवनं सर्वथा पर्यत्याक्षम् (परित्यक्तवान्),
येनाद्य तस्मै बोधयितुमधिकारं प्राप्तवान्” इत्यवोचत् ।
स्वयं करोतु कृत्वा प्रदर्शयतु उपदिशतु च
इत्यमुम् अंशं समबूबुधत् प्रसङ्गेऽस्मिन् भक्तः तुकारामः ।
विशिष्टानां जैवनी - ३
॥ॐ वक्रतुण्डाय नमः॥
महागणपतिं भक्त्या सर्वज्ञानप्रदायकम् ।
विघ्नविनाशकं नित्यं प्रणमामि मुहुर्मुहुः ॥
त एवं
समाचरन्....
- नेपोलियन् बोनपार्ट्
नेपोलियन्
बोनपार्ट् इत्याख्यः कश्चन महान् राजा बभूव । तस्य बाल्ये तस्य शुश्रूषार्थं काचित्
दासी नियुक्ता आसीत् । कमिला लारी इति नाम्न्याः तस्याः नेपोलियन्वर्ये महती प्रीतिरासीत्
। तं पुत्रवत् पर्यपालयच्च । शुश्रूषायां न कञ्चनलोपमकार्षीत् सा ।
पञ्चत्रिंशद्वर्षानन्तरं
नेपोलियन्वर्यः फ्रांसदेशस्य राजत्वं प्रापत्, तदा सः स्वकीयं राज्याभिषेकं कर्तुं
निश्चिचाय । एनां वार्तां श्रुतवन्तस्तत्प्रजाः अतीव हर्षेण पेरिसनगरम्
सम्यगलमकार्षुः । सर्वत्रापि आनन्दः प्रसृतः आसीत् ।
इयं हि
वार्ता सर्वत्र फ्रांसदेशे प्रसृता अभूत् । कर्णाकर्णिकया इमां वार्तां कमिला लारी
अपि अश्रौषीत् । सा उद्विग्ना जाता । सा नेपोलियन्वर्यस्य मेलनं निश्चिकाय ।
परन्तु झटिति तस्याः मनसि “नेपोलियन् इदानीं ज्येष्ठः संवृत्तः, एकं महान्तं
देशमेव शास्ति सः । किं मादृशां दरिद्राम् अल्पज्ञां दासीं सः परिचिनुयात्?” इति
सन्देहः समुत्पन्नः । गन्तव्यं न वा इति चिन्तयितुम् आरब्धवति ।
अन्ततो
गत्वा यद्भवितव्यं तद्भवतु, गमिष्याम्येव पेरिस्नगरम् इति निश्चित्य आत्मप्रियं
नेपोलियन्वर्यं मेलितुं पेरिस्नगरं समाययौ । नेपोलियन्वर्यस्य सङ्केतमन्विष्यन्
राजप्रसादं प्रापत्, तत्र दौवारिकान् “अहं महाराजं दिदृक्षामि, कृपया अवकाशं
कल्पयन्तु” इति प्रार्थयामास । परन्तु विनष्टवेशां तां वीक्ष्य इयं काचिदुन्मत्ता
इति भावयित्वा तां प्रताडयन् ।
सहसा
काकतालीयेन स्वयं नेपोलीयन्वर्यस्य यानं तस्मिन् पथि समागात् । तत्रोपविष्टः
नेपोलीयन्वर्यः कामिलालारीम् अद्राक्षीत् । आशु यानादवतीर्य, तामुपसर्प्य समालिङ्गत्
।
अग्रिमे
दिने उत्सवावसरे सभायां तां दासीं वैभवेन सत्कृत्य राज्ञ्याः जोसेफायिन्वर्यायाः
कण्ठे विद्यमानां अमूल्यां रत्नमालाम् उपायनीकृतवान् ।
अनेन
कर्मणा, विशिष्टाः कदापि प्राप्तां सेवां न विस्मरन्ति इति समाजाय अबूबुधत्
नेपोलियन्वर्यः ।
Sunday, 1 March 2015
विशिष्टानां जैवनी - २
॥ॐ वक्रतुण्डाय नमः॥
महागणपतिं भक्त्या सर्वज्ञानप्रदायकम् ।
विघ्नविनाशकं नित्यं प्रणमामि मुहुर्मुहुः ॥
त एवं
समाचरन्....
- कविराजः भूषणः
शिवाजीमहारजस्य
काले भूषणनामकः प्रसिद्धः कविरभूत् । तस्य मनसि राज्ञः विषये महती श्रद्धा भक्तिश्च
आसीत् । अत एव सः महारजमधिकृत्य बहूनि सुन्दराणि आह्लादकानि च काव्यानि रचयामास ।
तस्य जीवनस्य कश्चन प्रसङ्गः अत्रोल्लिख्यते ।
भूषणः
स्वबन्धोः कस्यचित् गृहे न्यवसत् । परन्तु कालान्तरे केनचित् कारणेन सः अन्यत्र
गन्तुं निश्चितवान् । “यवनराज्ये न वस्तव्यम्” इति तस्य प्रतिज्ञा (तस्मिन् काले
भारतस्य बहुषु भागेषु मुगलराज्यमासीत्) । अतः सः देहल्याः प्रस्थाय
कमाऊनपर्वतस्थस्य हिन्दुराजस्य आश्रयं स्व्यकार्षीत् । अल्पे एव काले सः
स्वकाव्यरचनाकौशलेन राज्ञः मनः अमूमुदत् ।
कदाचित्
सः राजा भूषणस्य काव्यकौशलेन प्रसन्नः तस्मै लक्षरूप्यकाणां पुरस्कारं दत्त्वा
सगर्वमुवाच – “ हे भूषण ! मादृशो दाता अस्यां पृथिव्यां न भूतो न भविष्यति । तस्मात्तुभ्यं
न कश्चिदन्यः एवं पुरस्कारं प्रदास्यति” इति ।
भूषणाय
राज्ञः अहङ्कारपूर्णानि वचांसि नारोचिषन्त । सः अविलम्बमवादीत् – “राजन् ! त्वया
यदुच्यते तन्नाहमङ्गीकरोमि । तव सदृशाः सहस्राधिकाः दानशूराः अमुष्यां वसुधायां
विद्यन्ते । परन्तु गर्वपूर्णवचोभिः पुरस्कृतानि लक्षरूप्यकाणि तुच्छानि इति
मन्वानः मादृशः कविः न कदाचित् अद्यावधि दृष्टः स्यात्” ।
एवमुक्त्वा
लक्षरूप्यकं तद्दानं तत्रैव स्थापयित्वा भूषणः सभायाः आशु निरगमत् ।
भूषणः
विशिष्टः, यः लक्षरूप्यकाणां महद्धनं पर्यत्याक्षीत्, तादृशाः विरला एव
अस्यामवन्याम् ।
Friday, 27 February 2015
विशिष्टानां जैवनी - १
॥ॐ वक्रतुण्डाय नमः॥
महागणपतिं भक्त्या सर्वज्ञानप्रदायकम् ।
विघ्नविनाशकं नित्यं प्रणमामि मुहुर्मुहुः ॥
त एवं
समाचरन्....
श्रीमान् थामस् आल्वा
एडिसन् इत्याख्यः महान् सुप्रसिद्धश्च विज्ञानी बभूव । सः यस्मिन् गृहे न्यवसत्
तस्य द्वारमतिविशिष्टमासीत् यस्योद्घाटने महान् श्रमः अपेक्षितः आसीत् । एडिसन्
इति सुविख्यातः विज्ञानी कथमेतादृशं मौर्ख्यं समाचरत् इति सर्वोऽपि विस्मितः आसीत्
। सुन्दरस्य विशिष्टस्य च गृहस्य अवैज्ञानिकं द्वारम् इति कथयन्तो हसितवन्त: जनाः ।
तथापि साक्षात् तस्मै कारणं प्रष्टुं न कस्याप्यासीद्धैर्यम् ।
कदाचित् एडिसन्महोदयस्य बन्धुः(यः बहुकृत्वः तद्गृहमागच्छत्)
द्वारोद्घाटनसमस्यया सन्त्रस्तः तमस्मिन् विषये सधैर्यमप्राक्षीत् । प्रश्नं
श्रुत्वा उच्चैः हसन् एडिसन् वर्योऽवादीत् – “अयि बन्धो ! इयमपि मदीया काचिद्रचना
।
“किम्? रचना वा? कोऽभिप्रायः भवतः वचनस्य? नाहमवगतवान् । कृपया विस्तरेण कथयतु
।“ इति सविस्मयमब्रवीत् ।
तदा तं द्वारं निकषा नयन् इत्थमाह एडिसन्वर्यः – “इदं द्वारं तथा निर्मितं
अस्ति येन यदा कश्चित् मद्गृहस्य द्वारमुद्घाट्य मद्गृहं प्रविशति तदा तस्य
द्वरोद्घाटनप्रयासेन मदीयगृहस्य दीर्घिकायां(Tank) पञचाशत् लीटर् परिमितं (कूपादाकृष्टम्) जलं स्वयमेव पूरितं भवति । अवगतं
ननु ?
ऎडिसन्द्वारा कल्पितायाः अस्याः जलपूरणव्यवस्थायाः कौशलं वीक्ष्य तस्य
धीशक्तिं प्रशंसन् बन्धुः निर्गतः ।
Subscribe to:
Posts (Atom)