Wednesday, 14 October 2015

मित्रवैशिष्ट्यम्

मित्रवैशिष्ट्यम् -
दर्शने स्पर्शने वापि श्रवणे भाषणेऽपि वा ।
यत्र द्रवत्यन्तरङ्गं स स्नेह इति कथ्यते ।।
#Sanskrit
http://t.co/q5jjuRLzKV

मित्रवैशिष्ट्यम् -
शुचित्वं त्यगिता शौर्यं सामान्यं सुखदुःखयोः ।
दाक्षिण्यं चानुरक्तिश्च सत्यता च सुहृद्गुणाः ।।
http://t.co/xcNKHiL0M3

मित्रवैशिष्ट्यम् -
व्याधितस्यार्थहीनस्य देशान्तरगतस्य च ।
नरस्य शोकदग्धस्य सुहृद्दर्शनमौषधम् ।।
#Sanskrit
http://t.co/diOa7KmCl3

मित्रवैशिष्ट्यम्-
प्राणात्यये समुत्पन्ने यदि स्यान्मित्रदर्शनम् ।
द्वयोः सुखप्रदं तच्च जीवतोऽपि मृतस्य च ।।
#Sanskrit
http://t.co/5rPjtGd7MS

मित्रवैशिष्ट्यम् -
अप्रियाण्यपि पथ्यानि ये वदन्ति नृणामिह ।
त एव सुहृदः प्रोक्ता अन्ये स्युर्नामधारकाः ।।
#Sanskrit
http://t.co/pUSKYHn2XI

मित्रवैशिष्ट्यम् -
आपत्काले तु संप्राप्ते यन्मित्रं मित्रमेव तत् ।
वृद्धिकाले तु संप्राप्ते दुर्जनोऽपि सुहृद्भवेत् ।।
#Sanskrit

मित्रवैशिष्ट्यम् -
सर्वेषामेव मर्त्यानां व्यसने समुपस्थिते ।
वाङ्मात्रेणापि साहाय्यं मित्रादन्यो न सन्दधे ।।
#Sanskrit

मित्रवैशिष्ट्यम् -
यन्नम्रं सगुणं चापि यच्चाऽऽपत्सु न सीदति ।
धनुर्मित्रं कलत्रं च दुर्लभं शुद्धवंशजम् ।।
#Sanskrit

Tuesday, 28 July 2015

पदामृतम्

                                       ॐ वक्रतुण्डाय नमः
                         अश्वत्थामञ्छब्दविचारः
अश्वस्य इव स्थाम = बलम् अस्य इति अश्वत्थामन् । अस्य शब्दस्य प्रथमैकवचने अश्वत्थामा इति रूपम् । अत्र सकारस्य तकारादेशः पृषोदरादित्वात् इति वक्तव्यम् । पृषोदरादीनि यथोपदिष्टम् (पा.सू.६/३/१०९) इत्यस्मिन् सूत्रे शिष्टप्रयुक्तानां शब्दानां सङ्ग्रहः क्रियते । शिष्टप्रयुक्ताः शब्दाः तथैव प्रयोक्तव्याः यथा तैः प्रयुक्ताः । अयं हि आकृतिगणः । के पुनः शिष्टाः? इति जिज्ञासायां तस्मिन्नेव सूत्रे भगवान् पतञ्जलिराह – “एतस्मिन्नार्यावर्ते आर्यनिवासे ये ब्राह्मणाः कुम्भीधान्याः अलोलुपाः अगृह्यमाणकारणाः किञ्चिदन्तरेण कस्याश्चिद्विद्यायाः पारं गतास्तत्र भवन्तः शिष्टाः । [ कुम्भीधान्या – कुम्भ्यामेव येषां धान्यम्; अगृह्यमाणकारणाः – दृष्टं कारणमन्तरेणैव(कारणं विनैव । दृष्टं कारणं लाभपूजादि ।) सदाचारानुवर्तिन इत्यर्थः । किञ्चिदन्तरेण इति – विनैवाभियोगादिना (अभियोगः – गुरूपदेशः । आदिना अभ्यासादिः) सर्वविद्यापारगाः ते हि साधुत्वपरिज्ञाने प्रमाणम् इति कैयटः]
अश्वत्थाम इत्ययं शब्दः पुंसि विद्यते । अश्वत्थामा द्रोणाचार्यस्य पुत्रः, अस्य माता कृपाचार्यस्य स्वसा कृपी आसीत् । यदा अस्य जन्म अभूत् तदा अयं अश्व इव उच्चैः आक्रोषं कृतवान् तस्मादस्य नाम अश्वत्थामा इत्यभूत् । तदुक्तं महाभारतस्य आदिपर्वणि –
स जातमात्रो व्यनदद्यथैवोच्चैःश्रवा हयः ।
तच्छ्रुत्वान्तर्हितं भूतमन्तरीक्षस्थमब्रवीत् ॥
अश्वस्येवास्य यत् स्थाम नदशः प्रदिशो गतम् ।
अश्वत्थामैव बालोऽयं तस्मान्नाम्ना भविष्यति ॥
                        (महाभारतम् आदिपर्व १४०-४९)
अश्वत्थामा इत्ययं कौरवसेनायामतीवपराक्रमी योद्धा आसीत् ।

Friday, 20 March 2015

स्वास्थ्यसुधा

॥ ॐ वक्रतुण्डाय नमः॥
अजीर्णरोगः
            अमुष्मिन् युगे मानवः सदा केनचित् रोगेण पीडितः दृश्यते । तत्रापि प्राधान्येन अजीर्णरोगः । अयं हि रोगः बहूनां रोगाणां मूलमिति वैद्याः आमनन्ति । तदुक्तं योगरत्नाकरे –
अविपक्वोऽग्निमान्द्येन यो रसः स निगद्यते ।
रोगाणां प्रथमो हेतुः सर्वेषामामसंज्ञया ॥
अर्थः – मन्दाग्निवशात् आमाशये शिष्टः अजीर्णः यः रसः, तस्य आम इति संज्ञा । स एव रोगस्यादिकारणं भवति ।

रोगस्य उपशमनम् अथवा रोगस्यानागमनचिन्तनं वा तस्य कारणं ज्ञात्वैव कर्तुं शक्यते । रोगकष्टानुभवापेक्षया तदनागमनमेव वरम् । तथा चाऽस्ति आङ्ग्ले काचिदभियुक्तोक्तिः – Prevention is better than cure. कानि पुनः अजीर्णरोगस्य कारणानि इति जिज्ञासामुच्यते –
अत्यम्बुपानाद्विषमाशनाच्च सन्धारणात्स्वप्नविपर्ययाच्च ।
कालेऽपि सात्म्यं लघु चापि भुक्तमन्नं न पाकं भजते नरस्य ॥ (योगरत्नाकरः)
अर्थः –
·       अपेक्षितपरिमाणादधिकस्य जलस्य पानात्;
·       विषमभोजनात् (अपेक्षितादधिकं न्यूनं वा);
·       अनियमितभोजनात् (समयात् पूर्वम् अनन्तरं वा );
·       मलमूत्रादिवेगानां धारणात्; निद्रायाः अभावात्
लघ्वाहारोऽपि जीर्णतां न प्राप्नोति ।
पुनश्च –
ईर्ष्याभयक्रोधपरिप्लुतेन लुब्धेन शुग्दैन्यनिपीडितेन ।
प्रद्वेषयुक्तेन च सेव्यमानमन्नं न सम्यक्पचते नरस्य ॥ (योगरत्नाकरः)

अर्थः –
            ईर्ष्या (अक्षमा), भयम्, क्रोधः, लोभः, शोकः, दैन्यम्, द्वेषः, इत्येतैः युक्तः सन् यो भुङ्क्ते स अजीर्णरोगेण पीडितो भवति ।

पुनरपि –
मात्रया चाभ्यवहृतं पथ्यं चान्नं न जीर्यति ।
चिन्ताशोकभयक्रोधदुःखशय्याप्रजागरैः ॥ (योगरत्नाकरः)


अर्थः –
            चिन्ता, शॊकः, भयम्, क्रोधः, दुःखम्, निद्राधिक्यम्, निद्राभावः इत्येतैः मात्रया भुक्तं पथ्यमपि अन्नं न जीर्यति ।


            एतानि प्रमुखानि कारणानि विदित्वा यो मनुष्यः भोजनं सेवते नूनं स सदा रोगरहितो भवति ।

Saturday, 14 March 2015

पदामृतम् (मुनिशब्दविचारः)

मुनिशब्दविचारः
मन्यन्ते = वेदशास्त्रादितत्त्वम् अवगच्छन्ति ये ते मुनयः = साधकबाधक-प्रमाणोपन्यासरूपयुक्तिभिः श्रुत्याद्यर्थावधारणरूपमननशीलाः ।

मन् धातोः मनोरुच्चोपधायाः (उ. ४/१४२) इत्युणादिसूत्रेण कर्तरि इन्प्रत्यये उपधाभूतस्य अकारस्य उकारादेशे च मुनिः इति रूपं सिद्ध्यति ।

तदुक्तं विविधेषु ग्रन्थेषु –
दुःखेष्वनुद्विग्नमनाः सुखेषु विगतस्पृहः ।
वीतरागभयक्रोधः स्थितधीर्मुनिरुच्यते ॥
(भगवद्गीता २-५६)
शाके पत्रे फले मूले वनवासे रतिः सदा ।
नियतोऽहरहः श्राद्धे स विप्रो मुनिरुच्यते ॥
(अत्रिस्मृतिः ३७२)
मौनान्न मुनिर्भवति नारण्यवसनान्मुनिः ।
स्वलक्षणं तु यो वेद स मुनिः श्रेष्ठ उच्यते ॥
 ( महाभारतम् उ.प.४३/६०)
अन्तर्बहिश्च मननात्कुरुते कर्म नित्यशः ।
मौनी शश्वद्वदेत्काले यो वै स मुनिरुच्यते ॥
(गणेशख ३.३५.३१)
आकृष्टफलमूलादी वनवासरतिस्सदा ।
कुरुतेऽहरहः श्राद्धमृषिर्विप्र स उच्यते ॥
 ( चाणक्यनीतिः ११.११)
वेदानुवचनेनापि यज्ञेन सकलेन च ।
दानेन तपसा देवान् तथैवानशनेन च ।
वेत्तुमिच्छति यो विद्वान् स मुनिर्नेतरो जनः ॥
(स्कन्दपुराणम्)
तमेतं वेदानुवचनेन ब्रह्मणा विविदिषन्ति यज्ञेन दानेन तपसाऽनाशकत्वेनैतमेव विदित्वा मुनिर्भवति ।

 (बृ.उ. ४/४/२२)

Saturday, 7 March 2015

विशिष्टानां जैवनी - ४

॥ॐ वक्रतुण्डाय नमः॥
महागणपतिं भक्त्या सर्वज्ञानप्रदायकम् ।
विघ्नविनाशकं नित्यं प्रणमामि मुहुर्मुहुः ॥

त एवं समाचरन्....
*   भक्तः तुकारामः
तुकाराममहाराजः पण्ढरपुरस्य विठ्ठलदेवस्य महान् भक्तः । कदाचित् तस्य प्रसृतां कीर्तिं श्रुत्वा काचित् वनिता स्वबालं तत्समीपम् आनैषीत्, तस्मै अवादीच्च – “महाराज ! अयं मे पुत्रः बहु गुडं भुङ्क्ते । गुडस्य अत्यधिकसेवनेन आरोग्यं नङ्क्ष्यति इति बहुधा बोधितेऽपि नायं कस्यापि वचनं श्रुणोति । कृपया एनं किञ्चिद्बोधयतु, येनास्य अयं दुरभ्यासः त्यक्तो भवेत्” ।
तस्याः वचनानि सावधानं श्रुत्वा तुकारामवर्यः आह- “अम्ब ! माधिकं चिन्तय । पञ्चदशभ्यः दिनेभ्यः अनन्तरम् आगत्य मां मिलतम् युवाम्” ।
एतच्छ्रुत्वा स्त्रिया चिन्तितं यत् एषु पञ्चदशसु दिनेषु तुकारामवर्यः किञ्चिद्विशिष्टम् औषधं निर्माय दद्यात्, यस्य सेवनेन मम पुत्रस्य गुडसेवनाभ्यासः त्यक्तो भविष्यति । सा सन्तुष्टमनसा पुत्रेण सह गृहमगच्छत् ।
ततः पञ्चदशभ्यः दिनेभ्यः अनन्तरं सा पुनः स्वपुत्रेण सह तुकारामस्य मेलनार्थं समागात् ।
तुकारामवर्यः तं बालं पश्यन् स्मयमानः (स्मयः = मन्दहासः)- “अयि बाल ! अत्यधिकस्य गुडस्य सेवनं स्वास्थ्याय न उत्तमम् । इत ऊर्ध्वं अल्प्रमाणेनैव गुडस्य सेवनं कुरुष्व” इत्यबूबुधत् ।
तुकारामवर्यस्य उपदेशं श्रुतवत्याः तस्याः महिलायाः मनसि खेदः उत्पन्नः । सा खेदेनैव तम् अप्राक्षीत् – “महाराज ! इदमेव यदि भवता वक्तव्यमासीत्, तर्हि पञ्चदशभ्यः दिनेभ्यः प्रागपि भवान् वक्तुम् अशक्ष्यत् खलु ? कुत अद्यावधि प्रत्यैचिक्षत् ?(प्रतीक्षां कारितवान्) ।
तस्याः सन्तापवचनानि श्रुत्वा शान्तभावेन हसन् – “ मातः ! पञ्चदशभ्यः दिनेभ्यः प्राग् एतदुपदेष्टुम्, यद् अतिशयस्य गुडस्य सेवनम् आरोग्याय हानिकारकम् इति, मम अधिकारः क्व(कुत्र) आसीत् ? सर्वथा नासीदेव । कुत इत्युक्तौ स्वयम् अहं तस्मिन् समये अत्यधिकं गुडमखादम् । तस्यामवस्थायां त्वत्पुत्राय  ‘गुडसेवनं मा कर्षीः’ इति कथं वा ब्रूयाम् । तदर्थमहम् एषु पञ्चदशसु दिनेषु गुडसेवनं सर्वथा पर्यत्याक्षम् (परित्यक्तवान्), येनाद्य तस्मै बोधयितुमधिकारं प्राप्तवान्” इत्यवोचत् ।
स्वयं करोतु कृत्वा प्रदर्शयतु उपदिशतु च इत्यमुम् अंशं समबूबुधत् प्रसङ्गेऽस्मिन् भक्तः तुकारामः ।


विशिष्टानां जैवनी - ३

॥ॐ वक्रतुण्डाय नमः॥
महागणपतिं भक्त्या सर्वज्ञानप्रदायकम् ।
विघ्नविनाशकं नित्यं प्रणमामि मुहुर्मुहुः ॥

त एवं समाचरन्....
  •    नेपोलियन् बोनपार्ट्

नेपोलियन् बोनपार्ट् इत्याख्यः कश्चन महान् राजा बभूव । तस्य बाल्ये तस्य शुश्रूषार्थं काचित् दासी नियुक्ता आसीत् । कमिला लारी इति नाम्न्याः तस्याः नेपोलियन्वर्ये महती प्रीतिरासीत् । तं पुत्रवत् पर्यपालयच्च । शुश्रूषायां न कञ्चनलोपमकार्षीत् सा ।
पञ्चत्रिंशद्वर्षानन्तरं नेपोलियन्वर्यः फ्रांसदेशस्य राजत्वं प्रापत्, तदा सः स्वकीयं राज्याभिषेकं कर्तुं निश्चिचाय । एनां वार्तां श्रुतवन्तस्तत्प्रजाः अतीव हर्षेण पेरिसनगरम् सम्यगलमकार्षुः । सर्वत्रापि आनन्दः प्रसृतः आसीत् ।
इयं हि वार्ता सर्वत्र फ्रांसदेशे प्रसृता अभूत् । कर्णाकर्णिकया इमां वार्तां कमिला लारी अपि अश्रौषीत् । सा उद्विग्ना जाता । सा नेपोलियन्वर्यस्य मेलनं निश्चिकाय । परन्तु झटिति तस्याः मनसि “नेपोलियन् इदानीं ज्येष्ठः संवृत्तः, एकं महान्तं देशमेव शास्ति सः । किं मादृशां दरिद्राम् अल्पज्ञां दासीं सः परिचिनुयात्?” इति सन्देहः समुत्पन्नः । गन्तव्यं न वा इति चिन्तयितुम् आरब्धवति ।
अन्ततो गत्वा यद्भवितव्यं तद्भवतु, गमिष्याम्येव पेरिस्नगरम् इति निश्चित्य आत्मप्रियं नेपोलियन्वर्यं मेलितुं पेरिस्नगरं समाययौ । नेपोलियन्वर्यस्य सङ्केतमन्विष्यन् राजप्रसादं प्रापत्, तत्र दौवारिकान् “अहं महाराजं दिदृक्षामि, कृपया अवकाशं कल्पयन्तु” इति प्रार्थयामास । परन्तु विनष्टवेशां तां वीक्ष्य इयं काचिदुन्मत्ता इति भावयित्वा तां प्रताडयन् ।
सहसा काकतालीयेन स्वयं नेपोलीयन्वर्यस्य यानं तस्मिन् पथि समागात् । तत्रोपविष्टः नेपोलीयन्वर्यः कामिलालारीम् अद्राक्षीत् । आशु यानादवतीर्य, तामुपसर्प्य समालिङ्गत् ।
अग्रिमे दिने उत्सवावसरे सभायां तां दासीं वैभवेन सत्कृत्य राज्ञ्याः जोसेफायिन्वर्यायाः कण्ठे विद्यमानां अमूल्यां रत्नमालाम् उपायनीकृतवान् ।
अनेन कर्मणा, विशिष्टाः कदापि प्राप्तां सेवां न विस्मरन्ति इति समाजाय अबूबुधत् नेपोलियन्वर्यः ।


Sunday, 1 March 2015

विशिष्टानां जैवनी - २

॥ॐ वक्रतुण्डाय नमः॥
महागणपतिं भक्त्या सर्वज्ञानप्रदायकम् ।
विघ्नविनाशकं नित्यं प्रणमामि मुहुर्मुहुः ॥

त एवं समाचरन्....
  •  कविराजः भूषणः

शिवाजीमहारजस्य काले भूषणनामकः प्रसिद्धः कविरभूत् । तस्य मनसि राज्ञः विषये महती श्रद्धा भक्तिश्च आसीत् । अत एव सः महारजमधिकृत्य बहूनि सुन्दराणि आह्लादकानि च काव्यानि रचयामास । तस्य जीवनस्य कश्चन प्रसङ्गः अत्रोल्लिख्यते ।
भूषणः स्वबन्धोः कस्यचित् गृहे न्यवसत् । परन्तु कालान्तरे केनचित् कारणेन सः अन्यत्र गन्तुं निश्चितवान् । “यवनराज्ये न वस्तव्यम्” इति तस्य प्रतिज्ञा (तस्मिन् काले भारतस्य बहुषु भागेषु मुगलराज्यमासीत्) । अतः सः देहल्याः प्रस्थाय कमाऊनपर्वतस्थस्य हिन्दुराजस्य आश्रयं स्व्यकार्षीत् । अल्पे एव काले सः स्वकाव्यरचनाकौशलेन राज्ञः मनः अमूमुदत् ।
कदाचित् सः राजा भूषणस्य काव्यकौशलेन प्रसन्नः तस्मै लक्षरूप्यकाणां पुरस्कारं दत्त्वा सगर्वमुवाच – “ हे भूषण ! मादृशो दाता अस्यां पृथिव्यां न भूतो न भविष्यति । तस्मात्तुभ्यं न कश्चिदन्यः एवं पुरस्कारं प्रदास्यति” इति ।
भूषणाय राज्ञः अहङ्कारपूर्णानि वचांसि नारोचिषन्त । सः अविलम्बमवादीत् – “राजन् ! त्वया यदुच्यते तन्नाहमङ्गीकरोमि । तव सदृशाः सहस्राधिकाः दानशूराः अमुष्यां वसुधायां विद्यन्ते । परन्तु गर्वपूर्णवचोभिः पुरस्कृतानि लक्षरूप्यकाणि तुच्छानि इति मन्वानः मादृशः कविः न कदाचित् अद्यावधि दृष्टः स्यात्” ।
एवमुक्त्वा लक्षरूप्यकं तद्दानं तत्रैव स्थापयित्वा भूषणः सभायाः आशु निरगमत् ।


भूषणः विशिष्टः, यः लक्षरूप्यकाणां महद्धनं पर्यत्याक्षीत्, तादृशाः विरला एव अस्यामवन्याम् ।

Friday, 27 February 2015

विशिष्टानां जैवनी - १

॥ॐ वक्रतुण्डाय नमः॥
महागणपतिं भक्त्या सर्वज्ञानप्रदायकम् ।
विघ्नविनाशकं नित्यं प्रणमामि मुहुर्मुहुः ॥

त एवं समाचरन्....
श्रीमान् थामस् आल्वा एडिसन् इत्याख्यः महान् सुप्रसिद्धश्च विज्ञानी बभूव । सः यस्मिन् गृहे न्यवसत् तस्य द्वारमतिविशिष्टमासीत् यस्योद्घाटने महान् श्रमः अपेक्षितः आसीत् । एडिसन् इति सुविख्यातः विज्ञानी कथमेतादृशं मौर्ख्यं समाचरत् इति सर्वोऽपि विस्मितः आसीत् । सुन्दरस्य विशिष्टस्य च गृहस्य अवैज्ञानिकं द्वारम् इति कथयन्तो हसितवन्त: जनाः । तथापि साक्षात् तस्मै कारणं प्रष्टुं न कस्याप्यासीद्धैर्यम् ।
कदाचित् एडिसन्महोदयस्य बन्धुः(यः बहुकृत्वः तद्गृहमागच्छत्) द्वारोद्घाटनसमस्यया सन्त्रस्तः तमस्मिन् विषये सधैर्यमप्राक्षीत् । प्रश्नं श्रुत्वा उच्चैः हसन् एडिसन् वर्योऽवादीत् – “अयि बन्धो ! इयमपि मदीया काचिद्रचना ।
“किम्? रचना वा? कोऽभिप्रायः भवतः वचनस्य? नाहमवगतवान् । कृपया विस्तरेण कथयतु ।“ इति सविस्मयमब्रवीत् ।
तदा तं द्वारं निकषा नयन् इत्थमाह एडिसन्वर्यः – “इदं द्वारं तथा निर्मितं अस्ति येन यदा कश्चित् मद्गृहस्य द्वारमुद्घाट्य मद्गृहं प्रविशति तदा तस्य द्वरोद्घाटनप्रयासेन मदीयगृहस्य दीर्घिकायां(Tank) पञचाशत् लीटर् परिमितं (कूपादाकृष्टम्) जलं स्वयमेव पूरितं भवति । अवगतं ननु ?

ऎडिसन्द्वारा कल्पितायाः अस्याः जलपूरणव्यवस्थायाः कौशलं वीक्ष्य तस्य धीशक्तिं प्रशंसन् बन्धुः निर्गतः ।

Wednesday, 25 February 2015

सूक्तयः - २


सूक्तयः
(संस्कृतार्थसहितम्)

एकमाशीविषो हन्ति शस्त्रेणैकश्च वध्यते ।
हन्ति विप्रः सराष्ट्राणि पुराण्यपि कोपितः ॥१॥
                                                                (महाभारतम्/आदिपर्वः/८१/२५)
अर्थः – क्रोधः किं किं न नाशयति । परन्तु क्रोधः परिणामः विविधः दृश्यते । तद्यथा यदा सर्पः कृद्धः भवति कश्चिदेकः म्रियते । यदा शास्त्रकोपः भवति तदापि एक एव हतो भवति । (शास्त्रविषये यदा अध्येता अवज्ञां प्रदर्शयति तदा शास्त्रस्य अंशान् सः विस्मरति येन सभादिषु सः अवमानितो भवति । विदुषः सभायाम् अपमानः मृत्युतुल्यः भवति ) । परन्तु यदा कश्चित् विप्रः(ब्राह्मणः) कृद्धः भवति तदा तस्य क्रोधः नगराणि राष्ट्राणि च समूलं विनाशयति ।
 एकमेव तु शूद्रस्य प्रभुः कर्म समादिशत् ।
 एतेषामेव वर्णानां शुश्रूषामनसूयया ॥२॥
                                                                     (मनुस्मृतिः-१/९१)
अर्थः – परमात्मा समाजप्रक्रियायाः सुष्ठु निर्वहणाय मनुष्येषु कार्यविभागं कृतवान् । तत्र शूद्रेभ्यः एकमेव कर्म समादिष्टं भगवता तद्धि ब्राह्मणशूद्रविशां श्रद्धया असूयां विना सेवा । (असूया नाम गुणेषु दोषाविष्करणम्) ।

एकवृक्षसमारूढा नानावर्णा विहङ्गमाः ।
 प्रभाते दिक्षु गच्छन्ति, तत्र का परिदेवना ॥३॥
                                                                                         (चाणक्यनीतिः-१०/१५)
अर्थः – यत्र महान् वृक्षः भवति तत्र वृक्षे बहवः पक्षिणः वसन्ति, आश्रयं वा प्राप्नुवन्ति । ते हि पक्षिणः रात्रौ आगत्य तस्य वृक्षस्य आश्रयं स्वीकुर्वन्ति । रात्रौ तत्र विश्रम्य प्रातः विविधेषु दिक्षु गच्छन्ति । तत्र शोकस्य न किञ्चित् कारणमस्ति । यतः अयं हि प्रकृतेः नियमः । तद्वदेव अस्मिन् संसाररूपवृक्षे बहवः आगत्य आश्रयं स्वीकुर्वन्ति, बन्धुत्वञ्च प्राप्नुवन्ति । काले समायते विविधेषु दिक्षु गच्छन्ति मरणं वा प्राप्नुवन्ति । यथोक्तं जातस्य हि ध्रुवो मृत्युः । अयं हि लोकस्य नियमः, अतस्तत्र शोको न कर्तव्यः ।

एकस्य कर्म संविक्ष्य करोत्यन्योऽपि गर्हितम् ।
गतानुगतिको लोको न लोकः पारमार्थिकः ॥४॥
                                                                                 (पञ्चतन्त्रम्-१/१७७)
अर्थः – लोकस्य कश्चन विचित्रस्वभावः अयम् अनुकरणरूपः । अनुकरणम् उत्तमं दुष्टं वा भवितुमर्हति । तत्र केचन दुष्टान् केचन साधून् अनुसरन्ति । कस्यचित् एकस्य दुष्कर्मणा प्राप्तं लाभं दृष्ट्वा अविचार्य तस्मिन् कर्मणि मनुष्यः आत्मानं प्रवर्तयति । यथा अन्धाः अन्धाननुसरन्ति तथैव बहवो हि अस्मिन् समाजे अविचार्य अन्याननुसरन्ति । परमार्थः कः? किं युक्तम् ? किञ्च अयुक्तम् इति नैव चिन्तयन्ति ।
एक एव हि वन्ध्यायाः शोको भवति मानसः ।
अप्रजास्मीति सन्तापो न ह्यन्यः पुत्र विद्यते ॥ ५॥
                                                        वा.रा.अयोध्याकाण्डम् २०/३७

अर्थः – अस्मिन् श्लोके कौसल्या रामं प्रति वदति – “ हे वत्स ! वन्ध्यायाः मनसि मम अपत्यं नास्ति इत्येकमेव दुःखं न कोऽप्यन्यः । (वन्ध्या – अपत्य(पुत्रः/पुत्री)रहिता स्त्री) ।

Saturday, 21 February 2015

सूक्तयः - १

सूक्तयः    
(संस्कृतार्थसहितम्)

 ऋषियज्ञं देवयज्ञं भूतयज्ञं च सर्वदा ।
     नृयज्ञं पितृयज्ञं च यथाशक्ति न हापयेत् ॥१॥

अर्थः – द्विजन्मनाम्(ब्राहमणक्षत्रियविशां) इदं कर्तव्यं भवति यत्ते नित्यं ऋषियज्ञं, देवयज्ञं, भूतयज्ञं, नृयज्ञं पितृयज्ञम् इत्येतान् पञ्च महायज्ञान् कुर्युः ।यथाशक्ति कर्मणां त्यागो यथा न स्यात् तथा यत्नं च कुर्युः ।
ऋषिषूत्क्रामत्सु मनुष्या देवानब्रुवन्
को न ऋषिर्भविष्यतीति ?
ते मनुष्येभ्यः तर्कमृषिमप्रयच्छन् ॥२॥
अर्थः – यदा जगति तत्त्ववेत्तारो ऋषयः अल्पा अभूवन् तदा मानवा विदुषः पृष्टवन्तः-“अयि विद्वांसः! एतेषां अधुना विद्यमानानाम् ऋषीणामनन्तरं को वा अस्माकं मर्गदर्शनं करिष्यति ?” प्रश्नं श्रुत्वा विद्वांसः अब्रुवन् – “ऋषीणामभावे तर्काः(युक्तयः) एव मनुष्याणां मर्गदर्शनं करिष्यन्ति ।

एकं मनुष्यमप्येकं गुणैरपि समन्वितम् ।
शक्यं द्विषन्तो मन्यन्ते वायुर्द्रुममिवैकजम् ॥३॥
                                                                                                                                                                                (विदुरनीतिः ४-अध्यायः)
अर्थः – बहुषु गुणेषु विद्यमानेऽपि एकः अद्वितीयः मानवः शत्रुभिर्जितो भवति, तद्यथा एकः महान् वृक्षः सुदृढमूलवानपि वायुना उत्पाटितो भवति ।

एकदेशं तु वेदस्य वेदाङ्गान्यपि वा पुनः ।
योऽध्यापयति वृत्त्यर्थमुपाध्यायः स उच्यते ॥४॥
                                                                           (मनुस्मृतिः २/१४६)
अर्थः – यः आजीविकार्थं वेदस्य कञ्चिद्भागम्, वेदाङ्गं वा पाठयति सः उपाध्यायः इत्युच्यते ।

एकपादो भूयो द्विपादो विचक्रमे
द्विपात्त्रिपादमभ्येति पश्चात् ।
चतुष्पादेति द्विपदामभिस्वरे
सम्पश्यन्पङ्क्तीरुपतिष्ठमानः ॥५॥
                                                                 (ऋग्वेदः- १०/११७/८)
अर्थः – समाजे मनुष्यस्य एते स्वभावाः बहुधा अवलोक्यन्ते । तद्यथा - एकांशयुक्तः मनुष्यः, तस्य अंशस्य द्विगुणं प्राप्तुम् इच्छति । द्विगुणं यः प्राप्नोति सः त्रिगुणं वाञ्छति । त्रिगुणं यः प्राप्नोति सः ततोऽप्यधिकं चतुर्गुणं वाञ्छति । परन्तु यः चतुर्गुणं प्राप्तवान् (अर्थात् यः भावयति अहं सर्वं प्राप्तवान् अस्मि, अहं तृप्तः अस्मि) सः पूर्वोक्तपङ्क्तीः पश्यन् तत्र विद्यमानान् सर्वानपि उन्नेतुं प्रयतते ।


Thursday, 15 January 2015

पादस्पर्शस्य वैज्ञानिकं प्रयोजनम्-

              इयमस्माकं काचिद्भारतीयपरम्परा यन्मनुष्य: ज्येष्ठस्य पादस्पर्शं विधाय आशिष: प्राप्नोति इति । एषा न केवलमेका परम्परा अपि तु विज्ञानं यद्धि अस्माकं शरीरेण मनसा विचारैश्च सम्बध्नाति । तथाहि -
             नमनं कृत्वा पादस्पर्शनक्रियया पृष्ठास्थिनो व्यायामो भवति । नमनक्रियया मस्तिष्के रक्तप्रवाहो वर्धते यश्च स्वास्थ्याय नेत्राभ्याञ्च लाभप्रदो भवति ।